दुर्गासप्तशती अध्याय 1: मधुकैटभवधः, Sanskrit Text

The hundred and four mantras of Chapter 1 of the Durga Saptashati in Sanskrit (Devanagari), each linked to its page with word-by-word meaning, Kannada and English.

मधुकैटभवधः, दुर्गासप्तशती, ಜೀವನ ಸೂತ್ರ

ಲಿಪಿ · लिपिः · Script: ಕನ್ನಡ  ·  संस्कृतम्  ·  English IAST

दुर्गासप्तशती, प्रथमोऽध्यायः: मधुकैटभवधः

One hundred and four mantras. A king who has lost his kingdom and a merchant turned out by his own family come together at one hermitage, and their question sets the whole Saptashati in motion. This page first gives the viniyoga of the first charitra and the meditation verse on Mahakali. After that every mantra is given in its own card with its number. Where the meaning page for a mantra is ready, tapping its card opens that page.

All thirteen chapters are listed here: दुर्गासप्तशती.

विनियोगः

अस्य श्रीप्रथमचरित्रस्य ब्रह्मा ऋषिः । महाकाली देवता । गायत्री छन्दः । नन्दा शक्तिः । रक्तदन्तिका बीजम् । अग्निस्तत्त्वम् । ऋग्वेदः स्वरूपम् । श्रीमहाकालीप्रीत्यर्थं प्रथमचरित्रजपे विनियोगः ।

This viniyoga, a declaration of purpose said before recitation, recalls that the seer of the first charitra is Brahma, its metre Gayatri, its deity Mahakali, its shakti Nanda, its seed Raktadantika, its element Agni and its form the Rigveda, and states that the recitation is offered for the pleasure of Mahakali.

ध्यानम्

ॐ खड्गं चक्रगदेषुचापपरिघाञ्छूलं भुशुण्डीं शिरः
शङ्खं सन्दधतीं करैस्त्रिनयनां सर्वाङ्गभूषावृताम् ।
नीलाश्मद्युतिमास्यपाददशकां सेवे महाकालिकां
यामस्तौत्स्वपिते हरौ कमलजो हन्तुं मधुं कैटभम् ॥

This meditation verse pictures Mahakali with ten faces, ten feet and three eyes, shining like a blue gem, holding in her hands a sword, a discus, a mace, arrows, a bow, a parigha or iron club, a spear, a bhushundi or missile weapon, a severed head and a conch, and says that she is the one whom Brahma praised, while Vishnu slept, so that Madhu and Kaitabha might be slain.

ॐ नमश्चण्डिकायै ॥

1ॐ ऐं मार्कण्डेय उवाच ॥ 1 ॥Meaning of verse 1.1 and 1.2 →2सावर्णिः सूर्यतनयो यो मनुः कथ्यतेऽष्टमः ।
निशामय तदुत्पत्तिं विस्तराद्गदतो मम ॥ 2 ॥
Meaning of verse 1.1 and 1.2 →
3महामायानुभावेन यथा मन्वन्तराधिपः ।
स बभूव महाभागः सावर्णिस्तनयो रवेः ॥ 3 ॥
Meaning of verse 1.3 →
4स्वारोचिषेऽन्तरे पूर्वं चैत्रवंशसमुद्भवः ।
सुरथो नाम राजाभूत्समस्ते क्षितिमण्डले ॥ 4 ॥
Meaning of verse 1.4 →
5तस्य पालयतः सम्यक् प्रजाः पुत्रानिवौरसान् ।
बभूवुः शत्रवो भूपाः कोलाविध्वंसिनस्तदा ॥ 5 ॥
Meaning of verse 1.5 →
6तस्य तैरभवद् युद्धमतिप्रबलदण्डिनः ।
न्यूनैरपि स तैर्युद्धे कोलाविध्वंसिभिर्जितः ॥ 6 ॥
Meaning of verse 1.6 →
7ततः स्वपुरमायातो निजदेशाधिपोऽभवत् ।
आक्रान्तः स महाभागस्तैस्तदा प्रबलारिभिः ॥ 7 ॥
Meaning of verse 1.7 →
8अमात्यैर्बलिभिर्दुष्टैर्दुर्बलस्य दुरात्मभिः ।
कोशो बलं चापहृतं तत्रापि स्वपुरे ततः ॥ 8 ॥
Meaning of verse 1.8 →
9ततो मृगयाव्याजेन हृतस्वाम्यः स भूपतिः ।
एकाकी हयमारुह्य जगाम गहनं वनम् ॥ 9 ॥
Meaning of verse 1.9 →
10स तत्राश्रममद्राक्षीद्द्विजवर्यस्य मेधसः ।
प्रशान्तश्वापदाकीर्णं मुनिशिष्योपशोभितम् ॥ 10 ॥
Meaning of verse 1.10 →
11तस्थौ कञ्चित्स कालं च मुनिना तेन सत्कृतः ।
इतश्चेतश्च विचरंस्तस्मिन् मुनिवराश्रमे ॥ 11 ॥
Meaning of verse 1.11 →
12सोऽचिन्तयत्तदा तत्र ममत्वाकृष्टमानसः ।
मत्पूर्वैः पालितं पूर्वं मया हीनं पुरं हि तत् ॥ 12 ॥
13मद्भृत्यैस्तैरसद्वृत्तैर्धर्मतः पाल्यते न वा ।
न जाने स प्रधानो मे शूरो हस्ती सदामदः ॥ 13 ॥
14मम वैरिवशं यातः कान् भोगानुपलप्स्यते ।
ये ममानुगता नित्यं प्रसादधनभोजनैः ॥ 14 ॥
15अनुवृत्तिं ध्रुवं तेऽद्य कुर्वन्त्यन्यमहीभृताम् ।
असम्यग्व्ययशीलैस्तैः कुर्वद्भिः सततं व्ययम् ॥ 15 ॥
16सञ्चितः सोऽतिदुःखेन क्षयं कोशो गमिष्यति ।
एतच्चान्यच्च सततं चिन्तयामास पार्थिवः ॥ 16 ॥
17तत्र विप्राश्रमाभ्याशे वैश्यमेकं ददर्श सः ।
स पृष्टस्तेन कस्त्वं भो हेतुश्चागमनेऽत्र कः ॥ 17 ॥
18सशोक इव कस्मात्त्वं दुर्मना इव लक्ष्यसे ।
इत्याकर्ण्य वचस्तस्य भूपतेः प्रणयोदितम् ॥ 18 ॥
19प्रत्युवाच स तं वैश्यः प्रश्रयावनतो नृपम् ॥ 19 ॥
20वैश्य उवाच ॥ 20 ॥
21समाधिर्नाम वैश्योऽहमुत्पन्नो धनिनां कुले ॥ 21 ॥
22पुत्रदारैर्निरस्तश्च धनलोभादसाधुभिः ।
विहीनश्च धनैर्दारैः पुत्रैरादाय मे धनम् ॥ 22 ॥
23वनमभ्यागतो दुःखी निरस्तश्चाप्तबन्धुभिः ।
सोऽहं न वेद्मि पुत्राणां कुशलाकुशलात्मिकाम् ॥ 23 ॥
24प्रवृत्तिं स्वजनानां च दाराणां चात्र संस्थितः ।
किं नु तेषां गृहे क्षेममक्षेमं किं नु साम्प्रतम् ॥ 24 ॥
25कथं ते किं नु सद्वृत्ता दुर्वृत्ताः किं नु मे सुताः ॥ 25 ॥
26राजोवाच ॥ 26 ॥
27यैर्निरस्तो भवाँल्लुब्धैः पुत्रदारादिभिर्धनैः ॥ 27 ॥
28तेषु किं भवतः स्नेहमनुबध्नाति मानसम् ॥ 28 ॥
29वैश्य उवाच ॥ 29 ॥
30एवमेतद्यथा प्राह भवानस्मद्गतं वचः ॥ 30 ॥
31किं करोमि न बध्नाति मम निष्ठुरतां मनः ।
यैः सन्त्यज्य पितृस्नेहं धनलुब्धैर्निराकृतः ॥ 31 ॥
32पतिस्वजनहार्दं च हार्दितेष्वेव मे मनः ।
किमेतन्नाभिजानामि जानन्नपि महामते ॥ 32 ॥
33यत्प्रेमप्रवणं चित्तं विगुणेष्वपि बन्धुषु ।
तेषां कृते मे निःश्वासो दौर्मनस्यं च जायते ॥ 33 ॥
34करोमि किं यन्न मनस्तेष्वप्रीतिषु निष्ठुरम् ॥ 34 ॥
35मार्कण्डेय उवाच ॥ 35 ॥
36ततस्तौ सहितौ विप्र तं मुनिं समुपस्थितौ ॥ 36 ॥
37समाधिर्नाम वैश्योऽसौ स च पार्थिवसत्तमः ।
कृत्वा तु तौ यथान्यायं यथार्हं तेन संविदम् ॥ 37 ॥
38उपविष्टौ कथाः काश्चिच्चक्रतुर्वैश्यपार्थिवौ ॥ 38 ॥
39राजोवाच ॥ 39 ॥
40भगवंस्त्वामहं प्रष्टुमिच्छाम्येकं वदस्व तत् ॥ 40 ॥
41दुःखाय यन्मे मनसः स्वचित्तायत्ततां विना ।
ममत्वं गतराज्यस्य राज्याङ्गेष्वखिलेष्वपि ॥ 41 ॥
42जानतोऽपि यथाज्ञस्य किमेतन्मुनिसत्तम ।
अयं च निकृतः पुत्रैर्दारैर्भृत्यैस्तथोज्झितः ॥ 42 ॥
43स्वजनेन च सन्त्यक्तस्तेषु हार्दी तथाप्यति ।
एवमेष तथाहं च द्वावप्यत्यन्तदुःखितौ ॥ 43 ॥
44दृष्टदोषेऽपि विषये ममत्वाकृष्टमानसौ ।
तत्किमेतन्महाभाग यन्मोहो ज्ञानिनोरपि ॥ 44 ॥
45ममास्य च भवत्येषा विवेकान्धस्य मूढता ॥ 45 ॥
46ऋषिरुवाच ॥ 46 ॥
47ज्ञानमस्ति समस्तस्य जन्तोर्विषयगोचरे ॥ 47 ॥
48विषयाश्च महाभाग यान्ति चैवं पृथक्पृथक् ।
दिवान्धाः प्राणिनः केचिद्रात्रावन्धास्तथापरे ॥ 48 ॥
49केचिद्दिवा तथा रात्रौ प्राणिनस्तुल्यदृष्टयः ।
ज्ञानिनो मनुजाः सत्यं किं तु ते न हि केवलम् ॥ 49 ॥
50यतो हि ज्ञानिनः सर्वे पशुपक्षिमृगादयः ।
ज्ञानं च तन्मनुष्याणां यत्तेषां मृगपक्षिणाम् ॥ 50 ॥
51मनुष्याणां च यत्तेषां तुल्यमन्यत्तथोभयोः ।
ज्ञानेऽपि सति पश्यैतान् पतङ्गाञ्छावचञ्चुषु ॥ 51 ॥
52कणमोक्षादृतान् मोहात्पीड्यमानानपि क्षुधा ।
मानुषा मनुजव्याघ्र साभिलाषाः सुतान् प्रति ॥ 52 ॥
53लोभात् प्रत्युपकाराय नन्वेतान् किं न पश्यसि ।
तथापि ममतावर्ते मोहगर्ते निपातिताः ॥ 53 ॥
54महामायाप्रभावेण संसारस्थितिकारिणा ।
तन्नात्र विस्मयः कार्यो योगनिद्रा जगत्पतेः ॥ 54 ॥
55महामाया हरेश्चैषा तया सम्मोह्यते जगत् ।
ज्ञानिनामपि चेतांसि देवी भगवती हि सा ॥ 55 ॥
56बलादाकृष्य मोहाय महामाया प्रयच्छति ।
तया विसृज्यते विश्वं जगदेतच्चराचरम् ॥ 56 ॥
57सैषा प्रसन्ना वरदा नृणां भवति मुक्तये ।
सा विद्या परमा मुक्तेर्हेतुभूता सनातनी ॥ 57 ॥
58संसारबन्धहेतुश्च सैव सर्वेश्वरेश्वरी ॥ 58 ॥
59राजोवाच ॥ 59 ॥
60भगवन् का हि सा देवी महामायेति यां भवान् ॥ 60 ॥
61ब्रवीति कथमुत्पन्ना सा कर्मास्याश्च किं द्विज ।
यत्प्रभावा च सा देवी यत्स्वरूपा यदुद्भवा ॥ 61 ॥
62तत्सर्वं श्रोतुमिच्छामि त्वत्तो ब्रह्मविदां वर ॥ 62 ॥
63ऋषिरुवाच ॥ 63 ॥
64नित्यैव सा जगन्मूर्तिस्तया सर्वमिदं ततम् ॥ 64 ॥
65तथापि तत्समुत्पत्तिर्बहुधा श्रूयतां मम ।
देवानां कार्यसिद्ध्यर्थमाविर्भवति सा यदा ॥ 65 ॥
66उत्पन्नेति तदा लोके सा नित्याप्यभिधीयते ।
योगनिद्रां यदा विष्णुर्जगत्येकार्णवीकृते ॥ 66 ॥
67आस्तीर्य शेषमभजत् कल्पान्ते भगवान् प्रभुः ।
तदा द्वावसुरौ घोरौ विख्यातौ मधुकैटभौ ॥ 67 ॥
68विष्णुकर्णमलोद्भूतौ हन्तुं ब्रह्माणमुद्यतौ ।
स नाभिकमले विष्णोः स्थितो ब्रह्मा प्रजापतिः ॥ 68 ॥
69दृष्ट्वा तावसुरौ चोग्रौ प्रसुप्तं च जनार्दनम् ।
तुष्टाव योगनिद्रां तामेकाग्रहृदयः स्थितः ॥ 69 ॥
70विबोधनार्थाय हरेर्हरिनेत्रकृतालयाम् ।
विश्वेश्वरीं जगद्धात्रीं स्थितिसंहारकारिणीम् ॥ 70 ॥
71निद्रां भगवतीं विष्णोरतुलां तेजसः प्रभुः ॥ 71 ॥
72ब्रह्मोवाच ॥ 72 ॥
73त्वं स्वाहा त्वं स्वधा त्वं हि वषट्कारः स्वरात्मिका ॥ 73 ॥
74सुधा त्वमक्षरे नित्ये त्रिधा मात्रात्मिका स्थिता ।
अर्धमात्रा स्थिता नित्या यानुच्चार्याविशेषतः ॥ 74 ॥
75त्वमेव सन्ध्या सावित्री त्वं देवि जननी परा ।
त्वयैतद्धार्यते विश्वं त्वयैतत् सृज्यते जगत् ॥ 75 ॥
76त्वयैतत् पाल्यते देवि त्वमत्स्यन्ते च सर्वदा ।
विसृष्टौ सृष्टिरूपा त्वं स्थितिरूपा च पालने ॥ 76 ॥
77तथा संहृतिरूपान्ते जगतोऽस्य जगन्मये ।
महाविद्या महामाया महामेधा महास्मृतिः ॥ 77 ॥
78महामोहा च भवती महादेवी महेश्वरी ।
प्रकृतिस्त्वं च सर्वस्य गुणत्रयविभाविनी ॥ 78 ॥
79कालरात्रिर्महारात्रिर्मोहरात्रिश्च दारुणा ।
त्वं श्रीस्त्वमीश्वरी त्वं ह्रीस्त्वं बुद्धिर्बोधलक्षणा ॥ 79 ॥
80लज्जा पुष्टिस्तथा तुष्टिस्त्वं शान्तिः क्षान्तिरेव च ।
खड्गिनी शूलिनी घोरा गदिनी चक्रिणी तथा ॥ 80 ॥
81शङ्खिनी चापिनी बाणभुशुण्डीपरिघायुधा ।
सौम्या सौम्यतराशेषसौम्येभ्यस्त्वतिसुन्दरी ॥ 81 ॥
82परापराणां परमा त्वमेव परमेश्वरी ।
यच्च किञ्चित्क्वचिद्वस्तु सदसद्वाखिलात्मिके ॥ 82 ॥
83तस्य सर्वस्य या शक्तिः सा त्वं किं स्तूयसे मया ।
यया त्वया जगत्स्रष्टा जगत्पात्यत्ति यो जगत् ॥ 83 ॥
84सोऽपि निद्रावशं नीतः कस्त्वां स्तोतुमिहेश्वरः ।
विष्णुः शरीरग्रहणमहमीशान एव च ॥ 84 ॥
85कारितास्ते यतोऽतस्त्वां कः स्तोतुं शक्तिमान् भवेत् ।
सा त्वमित्थं प्रभावैः स्वैरुदारैर्देवि संस्तुता ॥ 85 ॥
86मोहयैतौ दुराधर्षावसुरौ मधुकैटभौ ।
प्रबोधं च जगत्स्वामी नीयतामच्युतो लघु ॥ 86 ॥
87बोधश्च क्रियतामस्य हन्तुमेतौ महासुरौ ॥ 87 ॥
88ऋषिरुवाच ॥ 88 ॥
89एवं स्तुता तदा देवी तामसी तत्र वेधसा ॥ 89 ॥
90विष्णोः प्रबोधनार्थाय निहन्तुं मधुकैटभौ ।
नेत्रास्यनासिकाबाहुहृदयेभ्यस्तथोरसः ॥ 90 ॥
91निर्गम्य दर्शने तस्थौ ब्रह्मणोऽव्यक्तजन्मनः ।
उत्तस्थौ च जगन्नाथस्तया मुक्तो जनार्दनः ॥ 91 ॥
92एकार्णवेऽहिशयनात्ततः स ददृशे च तौ ।
मधुकैटभौ दुरात्मानावतिवीर्यपराक्रमौ ॥ 92 ॥
93क्रोधरक्तेक्षणावत्तुं ब्रह्माणं जनितोद्यमौ ।
समुत्थाय ततस्ताभ्यां युयुधे भगवान् हरिः ॥ 93 ॥
94पञ्चवर्षसहस्राणि बाहुप्रहरणो विभुः ।
तावप्यतिबलोन्मत्तौ महामायाविमोहितौ ॥ 94 ॥
95उक्तवन्तौ वरोऽस्मत्तो व्रियतामिति केशवम् ॥ 95 ॥
96श्रीभगवानुवाच ॥ 96 ॥
97भवेतामद्य मे तुष्टौ मम वध्यावुभावपि ॥ 97 ॥
98किमन्येन वरेणात्र एतावद्धि वृतं मया ॥ 98 ॥
99ऋषिरुवाच ॥ 99 ॥
100वञ्चिताभ्यामिति तदा सर्वमापोमयं जगत् ॥ 100 ॥
101विलोक्य ताभ्यां गदितो भगवान् कमलेक्षणः ।
आवां जहि न यत्रोर्वी सलिलेन परिप्लुता ॥ 101 ॥
102ऋषिरुवाच ॥ 102 ॥
103तथेत्युक्त्वा भगवता शङ्खचक्रगदाभृता ।
कृत्वा चक्रेण वै छिन्ने जघने शिरसी तयोः ॥ 103 ॥
104एवमेषा समुत्पन्ना ब्रह्मणा संस्तुता स्वयम् ।
प्रभावमस्या देव्यास्तु भूयः शृणु वदामि ते ॥ 104 ॥

॥ स्वस्ति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये मधुकैटभवधो नाम प्रथमोऽध्यायः ॥


About the slaying of Madhu and Kaitabha

The chapter is named after the slaying of Madhu and Kaitabha, yet more than its first half is the story of the distress of two ordinary men. Markandeya begins to tell Kraushtuki the background of the eighth Manu, Savarni. That Savarni was King Suratha in an earlier birth. In answer to the question put by him and by a merchant named Samadhi, the sage Medhas tells the first story of Mahamaya.

The course of the chapter

  • Mantras 1 to 16: Markandeya begins the story. Suratha is defeated by his enemies, and his own ministers seize his treasury and his army. Going into the forest on the pretext of a hunt, he stays at the hermitage of the sage Medhas, yet his thoughts keep returning to his city, his state elephant, his servants and his treasury.
  • Mantras 17 to 34: There he meets a merchant named Samadhi. His wife and sons, greedy for wealth, have turned him out of his home, yet his mind still worries about their welfare.
  • Mantras 35 to 45: The two go to the sage and ask why the mind clings to the very people who have abandoned them.
  • Mantras 46 to 58: The sage says that animals and birds too have knowledge of the world of the senses, yet out of attachment they feed grain to their young. Mahamaya forcibly draws even the minds of the wise into delusion, he says, and she is the cause of both bondage and liberation.
  • Mantras 59 to 72: The king asks who this Mahamaya is. The sage says she is eternal, yet appears for the work of the gods. At the end of an aeon, while Vishnu lies in yogic sleep, Madhu and Kaitabha, born from the wax of his ear, set out to kill Brahma.
  • Mantras 73 to 87: Brahma praises Yoganidra so that Vishnu may be woken. This is the hymn that calls her svaha, svadha and the power of creation, preservation and dissolution.
  • Mantras 88 to 104: The Goddess leaves Vishnu’s body and Vishnu wakes. After a long fight the demons, deluded by maya, offer Vishnu a boon. Vishnu asks for the boon that both of them die at his hands. When they ask to be killed where there is no water, he places them on his thigh and cuts off their heads with his discus.

Why do even those who know stay attached?

The question of the king and the merchant is simple. They know very well who abandoned them and why. Still the mind goes back to those people again and again. Why this attachment, when the knowledge is there? That is their confusion. The king even calls this state, his own and the merchant’s, the bewilderment of those blind to discernment.

The sage’s answer does not blame them. Mahamaya draws even the minds of the wise, he says. He also says that the same power, when pleased, grants the boon of liberation. All the remaining stories of the Saptashati unfold as the answer to the king’s question: who is this Mahamaya?

About this page

The text and the numbering of the mantras follow the Gita Press edition. This chapter has fourteen uvacha lines, twenty four half verses and sixty six full verses, one hundred and four mantras in all. In the cards on this page each one carries its own number.

On the meaning pages alone, each uvacha line is shown on the page of the verse it introduces. For example, the first mantra, Markandeya uvacha, is on the page for the second mantra. For now the meaning pages for the first ten verses (mantras 1 to 11) are ready. The rest are being added one by one.

Sources: several.

ಹೊಸ ಬರಹ ಬಂದಾಗ ತಿಳಿಯಿರಿ

ಅನಗತ್ಯ ಸಂದೇಶ ಕಳುಹಿಸುವುದಿಲ್ಲ. ವಿವರಕ್ಕೆ ಗೌಪ್ಯತಾ ನೀತಿ ನೋಡಿ.

ಪಾಠದಲ್ಲಿ ತಪ್ಪೋ ಬೇರೆ ಪಾಠಾಂತರವೋ ಕಂಡಿತೇ? ನಮಗೆ ತಿಳಿಸಿ.
Noticed a mistake or a different reading? Tell us.

ಪ್ರತಿಕ್ರಿಯೆ ಬರೆಯಿರಿ

ನಿಮ್ಮ ಇಮೇಲ್ ವಿಳಾಸ ಪ್ರಕಟವಾಗುವುದಿಲ್ಲ. ಅಗತ್ಯವಿರುವ ಕಡೆ * ಗುರುತಿದೆ

ಮೇಲಕ್ಕೆ