Namaste rudra manyave. Salutation to the anger of Rudra. The Rudraprashna begins by recognising the anger of God and bowing to it.
Then comes a long list of salutations. Rudra is in trees, in paths, in potters and blacksmiths, even in thieves. The tradition says that the Vedic source of the five-syllable mantra Namaḥ Śivāya is the eighth anuvaka of this text.
Text with svara (Devanagari)
॥ ॐ नमो भगवते॑ रुद्रा॒य ॥
The first anuvaka
ॐ नम॑स्ते रुद्र म॒न्यव॑ उ॒तोत॒ इष॑वे॒ नम॑ः ।
नम॑स्ते अस्तु॒ धन्व॑ने बा॒हुभ्या॑मु॒त ते॒ नम॑ः ।
या त॒ इषु॑ः शि॒वत॑मा शि॒वं ब॒भूव॑ ते॒ धनु॑ः ।
शि॒वा श॑र॒व्या॑ या तव॒ तया॑ नो रुद्र मृडय ।
या ते॑ रुद्र शि॒वा त॒नूरघो॒राऽपा॑पकाशिनी ।
तया॑ नस्त॒नुवा॒ शन्त॑मया॒ गिरि॑शन्ता॒भिचा॑कशीहि ।
यामिषुं॑ गिरिशन्त॒ हस्ते॒ बिभ॒र्ष्यस्त॑वे ।
शि॒वां गि॑रित्र॒ तां कु॑रु॒ मा हिग्ं॑सी॒ः पुरु॑षं॒ जग॑त् ।
शि॒वेन॒ वच॑सा त्वा॒ गिरि॒शाच्छा॑वदामसि ।
यथा॑ न॒ः सर्व॒मिज्जग॑दय॒क्ष्मग्ं सु॒मना॒ अस॑त् ।
अध्य॑वोचदधिव॒क्ता प्र॑थ॒मो दैव्यो॑ भि॒षक् ।
अहीग्॑श्च॒ सर्वा᳚ञ्ज॒म्भय॒न्त्सर्वा᳚श्च यातुधा॒न्य॑ः ।
अ॒सौ यस्ता॒म्रो अ॑रु॒ण उ॒त ब॒भ्रुः सु॑म॒ङ्गल॑ः ।
ये चे॒माग्ं रु॒द्रा अ॒भितो॑ दि॒क्षु श्रि॒ताः स॑हस्र॒शोऽवै॑षा॒ग्ं॒ हेड॑ ईमहे ।
अ॒सौ यो॑ऽव॒सर्प॑ति॒ नील॑ग्रीवो॒ विलो॑हितः ।
उ॒तैनं॑ गो॒पा अ॑दृश॒न्नदृ॑शन्नुदहा॒र्य॑ः ।
उ॒तैनं॒ विश्वा॑ भू॒तानि॒ स दृ॒ष्टो मृ॑डयाति नः ।
नमो॑ अस्तु॒ नील॑ग्रीवाय सहस्रा॒क्षाय॑ मी॒ढुषे᳚ ।
अथो॒ ये अ॑स्य॒ सत्त्वा॑नो॒ऽहं तेभ्यो॑ऽकर॒न्नम॑ः ।
प्रमु॑ञ्च॒ धन्व॑न॒स्त्वमु॒भयो॒रार्त्नि॑यो॒र्ज्याम् ।
याश्च॑ ते॒ हस्त॒ इष॑व॒ः परा॒ ता भ॑गवो वप ।
अ॒व॒तत्य॒ धनु॒स्त्वग्ं सह॑स्राक्ष॒ शते॑षुधे ।
नि॒शीर्य॑ श॒ल्यानां॒ मुखा॑ शि॒वो न॑ः सु॒मना॑ भव ।
विज्यं॒ धनु॑ः कप॒र्दिनो॒ विश॑ल्यो॒ बाण॑वाग्ं उ॒त ।
अने॑शन्न॒स्येष॑व आ॒भुर॑स्य निष॒ङ्गथि॑ः ।
या ते॑ हे॒तिर्मी॑ढुष्टम॒ हस्ते॑ ब॒भूव॑ ते॒ धनु॑ः ।
तया॒ऽस्मान् वि॒श्वत॒स्त्वम॑य॒क्ष्मया॒ परि॑ब्भुज ।
नम॑स्ते अ॒स्त्वायु॑धा॒याना॑तताय धृ॒ष्णवे᳚ ।
उ॒भाभ्या॑मु॒त ते॒ नमो॑ बा॒हुभ्यां॒ तव॒ धन्व॑ने ।
परि॑ते॒ धन्व॑नो हे॒तिर॒स्मान्वृ॑णक्तु वि॒श्वत॑ः ।
अथो॒ य इ॑षु॒धिस्तवा॒रे अ॒स्मन्निधे॑हि॒ तम् ॥
शंभवे नमः ॥
नम॑स्ते अस्तु भगवन्विश्वेश्व॒राय॑ महादे॒वाय॑ त्र्यम्ब॒काय॑ त्रिपुरान्त॒काय॑ त्रिकाग्निका॒लाय॑ कालाग्निरु॒द्राय॑
नीलक॒ण्ठाय॑ मृत्युञ्ज॒याय॑ सर्वेश्व॒राय॑
सदाशि॒वाय॑ श्रीमन्महादे॒वाय॒ नम॑ः ॥ 1 ॥
The second anuvaka
नमो॒ हिर॑ण्यबाहवे सेना॒न्ये॑ दि॒शां च॒ पत॑ये॒ नमो॒
नमो॑ वृ॒क्षेभ्यो॒ हरि॑केशेभ्यः पशू॒नां पत॑ये॒ नमो॒
नम॑ः स॒स्पिञ्ज॑राय॒ त्विषी॑मते पथी॒नां पत॑ये॒ नमो॒
नमो॑ बभ्लु॒शाय॑ विव्या॒धिनेऽन्ना॑नां॒ पत॑ये॒ नमो॒
नमो॒ हरि॑केशायोपवी॒तिने॑ पु॒ष्टानां॒ पत॑ये॒ नमो॒
नमो॑ भ॒वस्य॑ हे॒त्यै जग॑तां॒ पत॑ये॒ नमो॒
नमो॑ रु॒द्राया॑तता॒विने॒ क्षेत्रा॑णां॒ पत॑ये॒ नमो॒
नम॑ः सू॒तायाह॑न्त्याय॒ वना॑नां॒ पत॑ये॒ नमो॒
नमो॒ रोहि॑ताय स्थ॒पत॑ये वृ॒क्षाणां॒ पत॑ये॒ नमो॒
नमो॑ म॒न्त्रिणे॑ वाणि॒जाय॒ कक्षा॑णां॒ पत॑ये॒ नमो॒
नमो॑ भुव॒न्तये॑ वारिवस्कृ॒तायौष॑धीनां॒ पत॑ये॒ नमो॒
नम॑ उ॒च्चैर्घो॑षायाक्र॒न्दय॑ते पत्ती॒नां पत॑ये॒ नमो॒
नम॑ः कृत्स्नवी॒ताय॒ धाव॑ते॒ सत्त्व॑नां॒ पत॑ये॒ नम॑ः ॥ 2 ॥
The third anuvaka
नम॒ः सह॑मानाय निव्या॒धिन॑ आव्या॒धिनी॑नां॒ पत॑ये॒ नमो॒
नम॑ः ककु॒भाय॑ निष॒ङ्गिणे᳚ स्ते॒नानां॒ पत॑ये॒ नमो॒
नमो॑ निष॒ङ्गिण॑ इषुधि॒मते॒ तस्क॑राणां॒ पत॑ये॒ नमो॒
नमो॒ वञ्च॑ते परि॒वञ्च॑ते स्तायू॒नां पत॑ये॒ नमो॒
नमो॑ निचे॒रवे॑ परिच॒रायार॑ण्यानां॒ पत॑ये॒ नमो॒
नम॑ः सृका॒विभ्यो॒ जिघाग्ं॑सद्भ्यो मुष्ण॒तां पत॑ये॒ नमो॒ नमो॑ऽसि॒मद्भ्यो॒ नक्त॒ञ्चर॑द्भ्यः प्रकृ॒न्तानां॒ पत॑ये॒ नमो॒
नम॑ उष्णी॒षिणे॑ गिरिच॒राय॑ कुलु॒ञ्चानां॒ पत॑ये॒ नमो॒
नम॒ इषु॑मद्भ्यो धन्वा॒विभ्य॑श्च वो॒ नमो॒
नम॑ आतन्वा॒नेभ्य॑ः प्रति॒दधा॑नेभ्यश्च वो॒ नमो॒
नम॑ आ॒यच्छ॑द्भ्यो विसृ॒जद्भ्य॑श्च वो॒ नमो॒
नमो ऽस्य॑द्भ्यो॒ विध्य॑द्भ्यश्च वो॒ नमो॒
नम॒ आसी॑नेभ्य॒ः शया॑नेभ्यश्च वो॒ नमो॒
नम॑ः स्व॒पद्भ्यो॒ जाग्र॑द्भ्यश्च वो॒ नमो॒
नमस्ति॒ष्ठ॑द्भ्यो॒ धाव॑द्भ्यश्च वो॒ नमो॒
नम॑ः स॒भाभ्य॑ः स॒भाप॑तिभ्यश्च वो॒ नमो॒
नमो॒ अश्वे॒भ्योऽश्व॑पतिभ्यश्च वो॒ नम॑ः ॥ 3 ॥
The fourth anuvaka
नम॑ आव्या॒धिनी᳚भ्यो वि॒विध्य॑न्तीभ्यश्च वो॒ नमो॒
नम॒ उग॑णाभ्यस्तृग्ंह॒तीभ्य॑श्च वो॒ नमो॒
नमो॑ गृ॒त्सेभ्यो॑ गृ॒त्सप॑तिभ्यश्च वो॒ नमो॒
नमो॒ व्राते᳚भ्यो॒ व्रात॑पतिभ्यश्च वो॒ नमो॒
नमो॑ ग॒णेभ्यो॑ ग॒णप॑तिभ्यश्च वो॒ नमो॒
नमो॒ विरू॑पेभ्यो वि॒श्वरू॑पेभ्यश्च वो॒ नमो॒
नमो॑ म॒हद्भ्य॑ः, क्षुल्ल॒केभ्य॑श्च वो॒ नमो॒
नमो॑ र॒थिभ्यो॑ऽर॒थेभ्य॑श्च वो॒ नमो॒
नमो॒ रथे᳚भ्यो॒ रथ॑पतिभ्यश्च वो॒ नमो॒
नम॒ः सेना᳚भ्यः सेना॒निभ्य॑श्च वो॒ नमो॒
नम॑ः, क्ष॒त्तृभ्य॑ः सङ्ग्रही॒तृभ्य॑श्च वो॒ नमो॒
नम॒स्तक्ष॑भ्यो रथका॒रेभ्य॑श्च वो॒ नमो॒
नम॒ः कुला॑लेभ्यः क॒र्मारे᳚भ्यश्च वो॒ नमो॒
नम॑ः पु॒ञ्जिष्टे᳚भ्यो निषा॒देभ्य॑श्च वो॒ नमो॒
नम॑ इषु॒कृद्भ्यो॑ धन्व॒कृद्भ्य॑श्च वो॒ नमो॒
नमो॑ मृग॒युभ्य॑ः श्व॒निभ्य॑श्च वो॒ नमो॒
नम॒ः श्वभ्य॒ः श्वप॑तिभ्यश्च वो॒ नम॑ः ॥ 4 ॥
The fifth anuvaka
नमो॑ भ॒वाय॑ च रु॒द्राय॑ च॒
नम॑ः श॒र्वाय॑ च पशु॒पत॑ये च॒
नमो॒ नील॑ग्रीवाय च शिति॒कण्ठा॑य च॒
नम॑ः कप॒र्दिने॑ च॒ व्यु॑प्तकेशाय च॒
नम॑ः सहस्रा॒क्षाय॑ च श॒तध॑न्वने च॒
नमो॑ गिरि॒शाय॑ च शिपिवि॒ष्टाय॑ च॒
नमो॑ मी॒ढुष्ट॑माय॒ चेषु॑मते च॒
नमो᳚ ह्र॒स्वाय॑ च वाम॒नाय॑ च॒
नमो॑ बृह॒ते च॒ वर्षी॑यसे च॒
नमो॑ वृ॒द्धाय॑ च सं॒वृध्व॑ने च॒
नमो॒ अग्रि॑याय च प्रथ॒माय॑ च॒
नम॑ आ॒शवे॑ चाजि॒राय॑ च॒
नम॒ः शीघ्रि॑याय च॒ शीभ्या॑य च॒
नम॑ ऊ॒र्म्या॑य चावस्व॒न्या॑य च॒
नम॑ः स्रोत॒स्या॑य च॒ द्वीप्या॑य च ॥ 5 ॥
The sixth anuvaka
नमो᳚ ज्ये॒ष्ठाय॑ च कनि॒ष्ठाय॑ च॒
नम॑ः पूर्व॒जाय॑ चापर॒जाय॑ च॒
नमो॑ मध्य॒माय॑ चापग॒ल्भाय॑ च॒
नमो॑ जघ॒न्या॑य च॒ बुध्नि॑याय च॒
नम॑ः सो॒भ्या॑य च प्रतिस॒र्या॑य च॒
नमो॒ याम्या॑य च॒ क्षेम्या॑य च॒
नम॑ उर्व॒र्या॑य च॒ खल्या॑य च॒
नम॒ः श्लोक्या॑य चाऽवसा॒न्या॑य च॒
नमो॒ वन्या॑य च॒ कक्ष्या॑य च॒
नम॑ः श्र॒वाय॑ च प्रतिश्र॒वाय॑ च॒
नम॑ आ॒शुषे॑णाय चा॒शुर॑थाय च॒
नम॒ः शूरा॑य चावभिन्द॒ते च॒
नमो॑ व॒र्मिणे॑ च वरू॒थिने॑ च॒
नमो॑ बि॒ल्मिने॑ च कव॒चिने॑ च॒
नम॑ः श्रु॒ताय॑ च श्रुतसे॒नाय॑ च ॥ 6 ॥
The seventh anuvaka
नमो॑ दुन्दु॒भ्या॑य चाहन॒न्या॑य च॒
नमो॑ धृ॒ष्णवे॑ च प्रमृ॒शाय॑ च॒
नमो॑ दू॒ताय॑ च॒ प्रहि॑ताय च॒
नमो॑ निष॒ङ्गिणे॑ चेषुधि॒मते॑ च॒
नम॑स्ती॒क्ष्णेष॑वे चायु॒धिने॑ च॒
नम॑ः स्वायु॒धाय॑ च सु॒धन्व॑ने च॒
नम॒ः स्रुत्या॑य च॒ पथ्या॑य च॒
नम॑ः का॒ट्या॑य च नी॒प्या॑य च॒
नम॒ः सूद्या॑य च सर॒स्या॑य च॒
नमो॑ ना॒द्याय॑ च वैश॒न्ताय॑ च॒
नम॒ः कूप्या॑य चाव॒ट्या॑य च॒
नमो॒ वर्ष्या॑य चाव॒र्ष्याय॑ च॒
नमो॑ मे॒घ्या॑य च विद्यु॒त्या॑य च॒
नम॑ ई॒ध्रिया॑य चात॒प्या॑य च॒
नमो॒ वात्या॑य च॒ रेष्मि॑याय च॒
नमो॑ वास्त॒व्या॑य च वास्तु॒ पाय॑ च ॥ 7 ॥
The eighth anuvaka
नम॒ः सोमा॑य च रु॒द्राय॑ च॒
नम॑स्ता॒म्राय॑ चारु॒णाय॑ च॒
नम॑ः श॒ङ्गाय॑ च पशु॒पत॑ये च॒
नम॑ उ॒ग्राय॑ च भी॒माय॑ च॒
नमो॑ अग्रेव॒धाय॑ च दूरेव॒धाय॑ च॒
नमो॑ ह॒न्त्रे च॒ हनी॑यसे च॒
नमो॑ वृ॒क्षेभ्यो॒ हरि॑केशेभ्यो॒
नम॑स्ता॒राय॒ नम॑श्श॒म्भवे॑ च मयो॒भवे॑ च॒
नम॑ः शङ्क॒राय॑ च मयस्क॒राय॑ च॒
नम॑ः शि॒वाय॑ च शि॒वत॑राय च॒
नम॒स्तीर्थ्या॑य च॒ कूल्या॑य च॒
नम॑ः पा॒र्या॑य चावा॒र्या॑य च॒
नम॑ः प्र॒तर॑णाय चो॒त्तर॑णाय च॒
नम॑ आता॒र्या॑य चाला॒द्या॑य च॒
नम॒ः शष्प्या॑य च॒ फेन्या॑य च॒
नम॑ः सिक॒त्या॑य च प्रवा॒ह्या॑य च ॥ 8 ॥
The ninth anuvaka
नम॑ इरि॒ण्या॑य च प्रप॒थ्या॑य च॒
नम॑ः किग्ंशि॒लाय॑ च॒ क्षय॑णाय च॒
नम॑ः कप॒र्दिने॑ च पुल॒स्तये॑ च॒
नमो॒ गोष्ठ्या॑य च॒ गृह्या॑य च॒
नम॒स्तल्प्या॑य च॒ गेह्या॑य च॒
नम॑ः का॒ट्या॑य च गह्वरे॒ष्ठाय॑ च॒
नमो᳚ ह्रद॒य्या॑य च निवे॒ष्प्या॑य च॒
नम॑ः पाग्ं स॒व्या॑य च रज॒स्या॑य च॒
नम॒ः शुष्क्या॑य च हरि॒त्या॑य च॒
नमो॒ लोप्या॑य चोल॒प्या॑य च॒
नम॑ ऊ॒र्व्या॑य च सू॒र्म्या॑य च॒
नम॑ः प॒र्ण्या॑य च पर्णश॒द्या॑य च॒
नमो॑ऽपगु॒रमा॑णाय चाभिघ्न॒ते च॒
नम॑ आख्खिद॒ते च॑ प्रख्खिद॒ते च॒
नमो॑ वः किरि॒केभ्यो॑ दे॒वाना॒ग्ं॒ हृद॑येभ्यो॒
नमो॑ विक्षीण॒केभ्यो॒ नमो॑ विचिन्व॒त्केभ्यो॒
नम॑ आनिर्ह॒तेभ्यो॒ नम॑ आमीव॒त्केभ्य॑ः ॥ 9 ॥
The tenth anuvaka
द्रापे॒ अन्ध॑सस्पते॒ दरि॑द्र॒न्नील॑लोहित ।
ए॒षां पुरु॑षाणामे॒षां प॑शू॒नां मा भेर्माऽरो॒ मो ए॑षां॒ किञ्च॒नाम॑मत् ।
या ते॑ रुद्र शि॒वा त॒नूः शि॒वा वि॒श्वाह॑भेषजी ।
शि॒वा रु॒द्रस्य॑ भेष॒जी तया॑ नो मृड जी॒वसे᳚ ।
इ॒माग्ं रु॒द्राय॑ त॒वसे॑ कप॒र्दिने᳚ क्ष॒यद्वी॑राय॒ प्रभ॑रामहे म॒तिम् । यथा॑ न॒ः शमस॑द्द्वि॒पदे॒ चतु॑ष्पदे॒ विश्वं॑ पु॒ष्टं ग्रामे॑ अ॒स्मिन्नना॑तुरम् ।
मृ॒डा नो॑ रुद्रो॒त नो॒ मय॑स्कृधि क्ष॒यद्वी॑राय॒ नम॑सा विधेम ते ।
यच्छं च॒ योश्च॒ मनु॑राय॒जे पि॒ता तद॑श्याम॒ तव॑ रुद्र॒ प्रणी॑तौ ।
मा नो॑ म॒हान्त॑मु॒त मा नो॑ अर्भ॒कं मा न॒ उक्ष॑न्तमु॒त मा न॑ उक्षि॒तम् । मा नो॑ऽवधीः पि॒तरं॒ मोत मा॒तरं॑ प्रि॒या मा न॑स्त॒नुवो॑ रुद्र रीरिषः ।
मा न॑स्तो॒के तन॑ये॒ मा न॒ आयु॑षि॒ मा नो॒ गोषु॒ मा नो॒ अश्वे॑षु रीरिषः । वी॒रान्मा नो॑ रुद्र भामि॒तोऽव॑धीर्ह॒विष्म॑न्तो॒ नम॑सा विधेम ते ।
आ॒रात्ते॑ गो॒घ्न उ॒त पू॑रुष॒घ्ने क्ष॒यद्वी॑राय सु॒म्नम॒स्मे ते॑ अस्तु ।
रक्षा॑ च नो॒ अधि॑ च देव ब्रू॒ह्यधा॑ च न॒ः शर्म॑ यच्छ द्वि॒बर्हा᳚ः ।
स्तु॒हि श्रु॒तं ग॑र्त॒सदं॒ युवा॑नं मृ॒गन्न भी॒ममु॑पह॒त्नुमु॒ग्रम् ।
मृ॒डा ज॑रि॒त्रे रु॑द्र॒ स्तवा॑नो अ॒न्यन्ते॑ अ॒स्मन्निव॑पन्तु॒ सेना᳚ः ।
परि॑णो रु॒द्रस्य॑ हे॒तिर्वृ॑णक्तु॒ परि॑ त्वे॒षस्य॑ दुर्म॒ति र॑घा॒योः ।
अव॑ स्थि॒रा म॒घव॑द्भ्यस्तनुष्व॒ मीढ्व॑स्तो॒काय॒ तन॑याय मृडय ।
मीढु॑ष्टम॒ शिव॑तम शि॒वो न॑ः सु॒मना॑ भव ।
प॒र॒मे वृ॒क्ष आयु॑धन्नि॒धाय॒ कृत्तिं॒ वसा॑न॒ आच॑र॒ पिना॑कं॒ बिभ्र॒दाग॑हि ।
विकि॑रिद॒ विलो॑हित॒ नम॑स्ते अस्तु भगवः ।
यास्ते॑ स॒हस्रग्ं॑ हे॒तयो॒न्यम॒स्मन्निव॑पन्तु॒ ताः ।
स॒हस्रा॑णि सहस्र॒धा बा॑हु॒वोस्तव॑ हे॒तय॑ः ।
तासा॒मीशा॑नो भगवः परा॒चीना॒ मुखा॑ कृधि ॥ 10 ॥
The eleventh anuvaka
स॒हस्रा॑णि सहस्र॒शो ये रु॒द्रा अधि॒ भूम्या᳚म् ।
तेषाग्ं॑ सहस्रयोज॒नेऽव॒धन्वा॑नि तन्मसि ।
अ॒स्मिन्म॑ह॒त्य॑र्ण॒वे᳚ऽन्तरि॑क्षे भ॒वा अधि॑ ।
नील॑ग्रीवाः शिति॒कण्ठा᳚ः श॒र्वा अ॒धः क्ष॑माच॒राः ।
नील॑ग्रीवाः शिति॒कण्ठा॒ दिवग्ं॑ रु॒द्रा उप॑श्रिताः ।
ये वृ॒क्षेषु॑ स॒स्पिञ्ज॑रा॒ नील॑ग्रीवा॒ विलो॑हिताः ।
ये भू॒ताना॒मधि॑पतयो विशि॒खास॑ः कप॒र्दिन॑ः ।
ये अन्ने॑षु वि॒विध्य॑न्ति॒ पात्रे॑षु॒ पिब॑तो॒ जनान्॑ ।
ये प॒थां प॑थि॒रक्ष॑य ऐलबृ॒दा य॒व्युध॑ः ।
ये ती॒र्थानि॑ प्र॒चर॑न्ति सृ॒काव॑न्तो निष॒ङ्गिण॑ः ।
य ए॒ताव॑न्तश्च॒ भूयाग्ं॑सश्च॒ दिशो॑ रु॒द्रा वि॑तस्थि॒रे ।
तेषाग्ं॑ सहस्रयोज॒नेऽव॒धन्वा॑नि तन्मसि ।
नमो॑ रु॒द्रेभ्यो॒ ये पृ॑थि॒व्यां ये᳚ऽन्तरि॑क्षे॒ ये दि॒वि येषा॒मन्नं॒ वातो॑ व॒र्॒षमिष॑व॒स्तेभ्यो॒ दश॒ प्राची॒र्दश॑ दक्षि॒णा दश॑ प्र॒तीची॒र्दशोदी॑ची॒र्दशो॒र्ध्वास्तेभ्यो॒ नम॒स्ते नो॑ मृडयन्तु॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तं वो॒ जम्भे॑ दधामि ॥ 11 ॥
The closing mantras
त्र्य॑म्बकं यजामहे सुग॒न्धिं पु॑ष्टि॒वर्ध॑नम् ।
उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑नान्मृ॒त्योर्मु॑क्षीय॒ माऽमृता᳚त् ।
यो रु॒द्रो अ॒ग्नौ यो अ॒प्सु य ओष॑धीषु॒ यो रु॒द्रो विश्वा॒ भुव॑ना वि॒वेश॒ तस्मै॑ रु॒द्राय॒ नमो॑ अस्तु ।
तमु॑ ष्टु॒हि॒ यः स्वि॒षुः सु॒धन्वा॒ यो विश्व॑स्य॒ क्षय॑ति भेष॒जस्य॑ ।
यक्ष्वा᳚म॒हे सौ᳚मन॒साय॑ रु॒द्रं नमो᳚भिर्दे॒वमसु॑रं दुवस्य ।
अ॒यं मे॒ हस्तो॒ भग॑वान॒यं मे॒ भग॑वत्तरः ।
अ॒यं मे᳚ वि॒श्वभे᳚षजो॒ऽयग्ं शि॒वाभि॑मर्शनः ।
ये ते॑ स॒हस्र॑म॒युतं॒ पाशा॒ मृत्यो॒ मर्त्या॑य॒ हन्त॑वे ।
तान् य॒ज्ञस्य॑ मा॒यया॒ सर्वा॒नव॑यजामहे ।
मृ॒त्यवे॒ स्वाहा॑ मृ॒त्यवे॒ स्वाहा᳚ ।
ॐ नमो भगवते रुद्राय विष्णवे मृत्यु॑र्मे पा॒हि ॥
प्राणानां ग्रन्थिरसि रुद्रो मा॑ विशा॒न्तकः ।
तेनान्नेना᳚प्याय॒स्व ।
सदाशि॒वोम् ॥
ॐ शांतिः॒ शांतिः॒ शांतिः॑ ॥
Text in English IAST transliteration
|| oṃ namo bhagavaté rudrā̱ya ||
The first anuvaka
oṃ namáste rudra ma̱nyavá u̱tota̱ iṣáve̱ namáḥ |
namáste astu̱ dhanváne bā̱hubhyā́mu̱ta te̱ namáḥ |
yā ta̱ iṣúḥ śi̱vatámā śi̱vaṃ ba̱bhūvá te̱ dhanúḥ |
śi̱vā śára̱vyā́ yā tava̱ tayā́ no rudra mṛḍaya |
yā té rudra śi̱vā ta̱nūragho̱rā’pā́pakāśinī |
tayā́ nasta̱nuvā̱ śantámayā̱ giríśantā̱bhicā́kaśīhi |
yāmiṣúṃ giriśanta̱ haste̱ bibha̱rṣyastáve |
śi̱vāṃ gíritra̱ tāṃ kúru̱ mā hígṃsī̱ḥ purúṣa̱ṃ jagát |
śi̱vena̱ vacásā tvā̱ giri̱śācchā́vadāmasi |
yathā́ na̱ḥ sarva̱mijjagádaya̱kṣmagṃ su̱manā̱ asát |
adhyávocadadhiva̱ktā prátha̱mo daivyó bhi̱ṣak |
ahī́gśca̱ sarvā̋ñja̱mbhaya̱ntsarvā̋śca yātudhā̱nyáḥ |
a̱sau yastā̱mro áru̱ṇa u̱ta ba̱bhruḥ súma̱ṅgaláḥ |
ye ce̱māgṃ ru̱drā a̱bhitó di̱kṣu śri̱tāḥ sáhasra̱śo’vaíṣā̱̱gṃ heḍá īmahe |
a̱sau yó’va̱sarpáti̱ nīlágrīvo̱ vilóhitaḥ |
u̱taináṃ go̱pā ádṛśa̱nnadṛ́śannudahā̱ryáḥ |
u̱taina̱ṃ viśvā́ bhū̱tāni̱ sa dṛ̱ṣṭo mṛ́ḍayāti naḥ |
namó astu̱ nīlágrīvāya sahasrā̱kṣāyá mī̱ḍhuṣe̋ |
atho̱ ye ásya̱ sattvā́no̱’haṃ tebhyó’kara̱nnamáḥ |
pramúñca̱ dhanvána̱stvamu̱bhayo̱rārtníyo̱rjyām |
yāścá te̱ hasta̱ iṣáva̱ḥ parā̱ tā bhágavo vapa |
a̱va̱tatya̱ dhanu̱stvagṃ sahásrākṣa̱ śatéṣudhe |
ni̱śīryá śa̱lyānā̱ṃ mukhā́ śi̱vo náḥ su̱manā́ bhava |
vijya̱ṃ dhanúḥ kapa̱rdino̱ viśályo̱ bāṇávāgṃ u̱ta |
anéśanna̱syeṣáva ā̱bhurásya niṣa̱ṅgathíḥ |
yā té he̱tirmī́ḍhuṣṭama̱ hasté ba̱bhūvá te̱ dhanúḥ |
tayā̱’smān vi̱śvata̱stvamáya̱kṣmayā̱ paríbbhuja |
namáste a̱stvāyúdhā̱yānā́tatāya dhṛ̱ṣṇave̋ |
u̱bhābhyā́mu̱ta te̱ namó bā̱hubhyā̱ṃ tava̱ dhanváne |
paríte̱ dhanváno he̱tira̱smānvṛ́ṇaktu vi̱śvatáḥ |
atho̱ ya íṣu̱dhistavā̱re a̱smannidhéhi̱ tam ||
śaṃbhave namaḥ ||
namáste astu bhagavanviśveśva̱rāyá mahāde̱vāyá tryamba̱kāyá tripurānta̱kāyá trikāgnikā̱lāyá kālāgniru̱drāyá
nīlaka̱ṇṭhāyá mṛtyuñja̱yāyá sarveśva̱rāyá
sadāśi̱vāyá śrīmanmahāde̱vāya̱ namáḥ || 1 ||
The second anuvaka
namo̱ hiráṇyabāhave senā̱nyé di̱śāṃ ca̱ patáye̱ namo̱
namó vṛ̱kṣebhyo̱ haríkeśebhyaḥ paśū̱nāṃ patáye̱ namo̱
namáḥ sa̱spiñjárāya̱ tviṣī́mate pathī̱nāṃ patáye̱ namo̱
namó babhlu̱śāyá vivyā̱dhine’nnā́nā̱ṃ patáye̱ namo̱
namo̱ haríkeśāyopavī̱tiné pu̱ṣṭānā̱ṃ patáye̱ namo̱
namó bha̱vasyá he̱tyai jagátā̱ṃ patáye̱ namo̱
namó ru̱drāyā́tatā̱vine̱ kṣetrā́ṇā̱ṃ patáye̱ namo̱
namáḥ sū̱tāyāhántyāya̱ vanā́nā̱ṃ patáye̱ namo̱
namo̱ rohítāya stha̱patáye vṛ̱kṣāṇā̱ṃ patáye̱ namo̱
namó ma̱ntriṇé vāṇi̱jāya̱ kakṣā́ṇā̱ṃ patáye̱ namo̱
namó bhuva̱ntayé vārivaskṛ̱tāyauṣádhīnā̱ṃ patáye̱ namo̱
namá u̱ccairghóṣāyākra̱ndayáte pattī̱nāṃ patáye̱ namo̱
namáḥ kṛtsnavī̱tāya̱ dhāváte̱ sattvánā̱ṃ patáye̱ namáḥ || 2 ||
The third anuvaka
nama̱ḥ sahámānāya nivyā̱dhiná āvyā̱dhinī́nā̱ṃ patáye̱ namo̱
namáḥ kaku̱bhāyá niṣa̱ṅgiṇe̋ ste̱nānā̱ṃ patáye̱ namo̱
namó niṣa̱ṅgiṇá iṣudhi̱mate̱ taskárāṇā̱ṃ patáye̱ namo̱
namo̱ vañcáte pari̱vañcáte stāyū̱nāṃ patáye̱ namo̱
namó nice̱ravé parica̱rāyāráṇyānā̱ṃ patáye̱ namo̱
namáḥ sṛkā̱vibhyo̱ jighā́gṃsadbhyo muṣṇa̱tāṃ patáye̱ namo̱ namó’si̱madbhyo̱ nakta̱ñcarádbhyaḥ prakṛ̱ntānā̱ṃ patáye̱ namo̱
namá uṣṇī̱ṣiṇé girica̱rāyá kulu̱ñcānā̱ṃ patáye̱ namo̱
nama̱ iṣúmadbhyo dhanvā̱vibhyáśca vo̱ namo̱
namá ātanvā̱nebhyáḥ prati̱dadhā́nebhyaśca vo̱ namo̱
namá ā̱yacchádbhyo visṛ̱jadbhyáśca vo̱ namo̱
namo ‘syádbhyo̱ vidhyádbhyaśca vo̱ namo̱
nama̱ āsī́nebhya̱ḥ śayā́nebhyaśca vo̱ namo̱
namáḥ sva̱padbhyo̱ jāgrádbhyaśca vo̱ namo̱
namasti̱ṣṭhádbhyo̱ dhāvádbhyaśca vo̱ namo̱
namáḥ sa̱bhābhyáḥ sa̱bhāpátibhyaśca vo̱ namo̱
namo̱ aśve̱bhyo’śvápatibhyaśca vo̱ namáḥ || 3 ||
The fourth anuvaka
namá āvyā̱dhinī̋bhyo vi̱vidhyántībhyaśca vo̱ namo̱
nama̱ ugáṇābhyastṛgṃha̱tībhyáśca vo̱ namo̱
namó gṛ̱tsebhyó gṛ̱tsapátibhyaśca vo̱ namo̱
namo̱ vrāte̋bhyo̱ vrātápatibhyaśca vo̱ namo̱
namó ga̱ṇebhyó ga̱ṇapátibhyaśca vo̱ namo̱
namo̱ virū́pebhyo vi̱śvarū́pebhyaśca vo̱ namo̱
namó ma̱hadbhyáḥ, kṣulla̱kebhyáśca vo̱ namo̱
namó ra̱thibhyó’ra̱thebhyáśca vo̱ namo̱
namo̱ rathe̋bhyo̱ rathápatibhyaśca vo̱ namo̱
nama̱ḥ senā̋bhyaḥ senā̱nibhyáśca vo̱ namo̱
namáḥ, kṣa̱ttṛbhyáḥ saṅgrahī̱tṛbhyáśca vo̱ namo̱
nama̱stakṣábhyo rathakā̱rebhyáśca vo̱ namo̱
nama̱ḥ kulā́lebhyaḥ ka̱rmāre̋bhyaśca vo̱ namo̱
namáḥ pu̱ñjiṣṭe̋bhyo niṣā̱debhyáśca vo̱ namo̱
namá iṣu̱kṛdbhyó dhanva̱kṛdbhyáśca vo̱ namo̱
namó mṛga̱yubhyáḥ śva̱nibhyáśca vo̱ namo̱
nama̱ḥ śvabhya̱ḥ śvapátibhyaśca vo̱ namáḥ || 4 ||
The fifth anuvaka
namó bha̱vāyá ca ru̱drāyá ca̱
namáḥ śa̱rvāyá ca paśu̱patáye ca̱
namo̱ nīlágrīvāya ca śiti̱kaṇṭhā́ya ca̱
namáḥ kapa̱rdiné ca̱ vyúptakeśāya ca̱
namáḥ sahasrā̱kṣāyá ca śa̱tadhánvane ca̱
namó giri̱śāyá ca śipivi̱ṣṭāyá ca̱
namó mī̱ḍhuṣṭámāya̱ ceṣúmate ca̱
namő hra̱svāyá ca vāma̱nāyá ca̱
namó bṛha̱te ca̱ varṣī́yase ca̱
namó vṛ̱ddhāyá ca sa̱ṃvṛdhváne ca̱
namo̱ agríyāya ca pratha̱māyá ca̱
namá ā̱śavé cāji̱rāyá ca̱
nama̱ḥ śīghríyāya ca̱ śībhyā́ya ca̱
namá ū̱rmyā́ya cāvasva̱nyā́ya ca̱
namáḥ srota̱syā́ya ca̱ dvīpyā́ya ca || 5 ||
The sixth anuvaka
namő jye̱ṣṭhāyá ca kani̱ṣṭhāyá ca̱
namáḥ pūrva̱jāyá cāpara̱jāyá ca̱
namó madhya̱māyá cāpaga̱lbhāyá ca̱
namó jagha̱nyā́ya ca̱ budhníyāya ca̱
namáḥ so̱bhyā́ya ca pratisa̱ryā́ya ca̱
namo̱ yāmyā́ya ca̱ kṣemyā́ya ca̱
namá urva̱ryā́ya ca̱ khalyā́ya ca̱
nama̱ḥ ślokyā́ya cā’vasā̱nyā́ya ca̱
namo̱ vanyā́ya ca̱ kakṣyā́ya ca̱
namáḥ śra̱vāyá ca pratiśra̱vāyá ca̱
namá ā̱śuṣéṇāya cā̱śuráthāya ca̱
nama̱ḥ śūrā́ya cāvabhinda̱te ca̱
namó va̱rmiṇé ca varū̱thiné ca̱
namó bi̱lminé ca kava̱ciné ca̱
namáḥ śru̱tāyá ca śrutase̱nāyá ca || 6 ||
The seventh anuvaka
namó dundu̱bhyā́ya cāhana̱nyā́ya ca̱
namó dhṛ̱ṣṇavé ca pramṛ̱śāyá ca̱
namó dū̱tāyá ca̱ prahítāya ca̱
namó niṣa̱ṅgiṇé ceṣudhi̱maté ca̱
namástī̱kṣṇeṣáve cāyu̱dhiné ca̱
namáḥ svāyu̱dhāyá ca su̱dhanváne ca̱
nama̱ḥ srutyā́ya ca̱ pathyā́ya ca̱
namáḥ kā̱ṭyā́ya ca nī̱pyā́ya ca̱
nama̱ḥ sūdyā́ya ca sara̱syā́ya ca̱
namó nā̱dyāyá ca vaiśa̱ntāyá ca̱
nama̱ḥ kūpyā́ya cāva̱ṭyā́ya ca̱
namo̱ varṣyā́ya cāva̱rṣyāyá ca̱
namó me̱ghyā́ya ca vidyu̱tyā́ya ca̱
namá ī̱dhriyā́ya cāta̱pyā́ya ca̱
namo̱ vātyā́ya ca̱ reṣmíyāya ca̱
namó vāsta̱vyā́ya ca vāstu̱ pāyá ca || 7 ||
The eighth anuvaka
nama̱ḥ somā́ya ca ru̱drāyá ca̱
namástā̱mrāyá cāru̱ṇāyá ca̱
namáḥ śa̱ṅgāyá ca paśu̱patáye ca̱
namá u̱grāyá ca bhī̱māyá ca̱
namó agreva̱dhāyá ca dūreva̱dhāyá ca̱
namó ha̱ntre ca̱ hanī́yase ca̱
namó vṛ̱kṣebhyo̱ haríkeśebhyo̱
namástā̱rāya̱ namáśśa̱mbhavé ca mayo̱bhavé ca̱
namáḥ śaṅka̱rāyá ca mayaska̱rāyá ca̱
namáḥ śi̱vāyá ca śi̱vatárāya ca̱
nama̱stīrthyā́ya ca̱ kūlyā́ya ca̱
namáḥ pā̱ryā́ya cāvā̱ryā́ya ca̱
namáḥ pra̱taráṇāya co̱ttaráṇāya ca̱
namá ātā̱ryā́ya cālā̱dyā́ya ca̱
nama̱ḥ śaṣpyā́ya ca̱ phenyā́ya ca̱
namáḥ sika̱tyā́ya ca pravā̱hyā́ya ca || 8 ||
The ninth anuvaka
namá iri̱ṇyā́ya ca prapa̱thyā́ya ca̱
namáḥ kigṃśi̱lāyá ca̱ kṣayáṇāya ca̱
namáḥ kapa̱rdiné ca pula̱stayé ca̱
namo̱ goṣṭhyā́ya ca̱ gṛhyā́ya ca̱
nama̱stalpyā́ya ca̱ gehyā́ya ca̱
namáḥ kā̱ṭyā́ya ca gahvare̱ṣṭhāyá ca̱
namő hrada̱yyā́ya ca nive̱ṣpyā́ya ca̱
namáḥ pāgṃ sa̱vyā́ya ca raja̱syā́ya ca̱
nama̱ḥ śuṣkyā́ya ca hari̱tyā́ya ca̱
namo̱ lopyā́ya cola̱pyā́ya ca̱
namá ū̱rvyā́ya ca sū̱rmyā́ya ca̱
namáḥ pa̱rṇyā́ya ca parṇaśa̱dyā́ya ca̱
namó’pagu̱ramā́ṇāya cābhighna̱te ca̱
namá ākhkhida̱te cá prakhkhida̱te ca̱
namó vaḥ kiri̱kebhyó de̱vānā̱̱gṃ hṛdáyebhyo̱
namó vikṣīṇa̱kebhyo̱ namó vicinva̱tkebhyo̱
namá ānirha̱tebhyo̱ namá āmīva̱tkebhyáḥ || 9 ||
The tenth anuvaka
drāpe̱ andhásaspate̱ darídra̱nnīlálohita |
e̱ṣāṃ purúṣāṇāme̱ṣāṃ páśū̱nāṃ mā bhermā’ro̱ mo éṣā̱ṃ kiñca̱nāmámat |
yā té rudra śi̱vā ta̱nūḥ śi̱vā vi̱śvāhábheṣajī |
śi̱vā ru̱drasyá bheṣa̱jī tayā́ no mṛḍa jī̱vase̋ |
i̱māgṃ ru̱drāyá ta̱vasé kapa̱rdine̋ kṣa̱yadvī́rāya̱ prabhárāmahe ma̱tim | yathā́ na̱ḥ śamasáddvi̱pade̱ catúṣpade̱ viśváṃ pu̱ṣṭaṃ grāmé a̱sminnanā́turam |
mṛ̱ḍā nó rudro̱ta no̱ mayáskṛdhi kṣa̱yadvī́rāya̱ namásā vidhema te |
yacchaṃ ca̱ yośca̱ manúrāya̱je pi̱tā tadáśyāma̱ tavá rudra̱ praṇī́tau |
mā nó ma̱hāntámu̱ta mā nó arbha̱kaṃ mā na̱ ukṣántamu̱ta mā ná ukṣi̱tam | mā nó’vadhīḥ pi̱tara̱ṃ mota mā̱taráṃ pri̱yā mā násta̱nuvó rudra rīriṣaḥ |
mā násto̱ke tanáye̱ mā na̱ āyúṣi̱ mā no̱ goṣu̱ mā no̱ aśvéṣu rīriṣaḥ | vī̱rānmā nó rudra bhāmi̱to’vádhīrha̱viṣmánto̱ namásā vidhema te |
ā̱rātté go̱ghna u̱ta pū́ruṣa̱ghne kṣa̱yadvī́rāya su̱mnama̱sme té astu |
rakṣā́ ca no̱ adhí ca deva brū̱hyadhā́ ca na̱ḥ śarmá yaccha dvi̱barhā̋ḥ |
stu̱hi śru̱taṃ gárta̱sada̱ṃ yuvā́naṃ mṛ̱ganna bhī̱mamúpaha̱tnumu̱gram |
mṛ̱ḍā jári̱tre rúdra̱ stavā́no a̱nyanté a̱smannivápantu̱ senā̋ḥ |
paríṇo ru̱drasyá he̱tirvṛ́ṇaktu̱ parí tve̱ṣasyá durma̱ti rághā̱yoḥ |
avá sthi̱rā ma̱ghavádbhyastanuṣva̱ mīḍhvásto̱kāya̱ tanáyāya mṛḍaya |
mīḍhúṣṭama̱ śivátama śi̱vo náḥ su̱manā́ bhava |
pa̱ra̱me vṛ̱kṣa āyúdhanni̱dhāya̱ kṛtti̱ṃ vasā́na̱ ācára̱ pinā́ka̱ṃ bibhra̱dāgáhi |
vikírida̱ vilóhita̱ namáste astu bhagavaḥ |
yāsté sa̱hasrágṃ he̱tayo̱nyama̱smannivápantu̱ tāḥ |
sa̱hasrā́ṇi sahasra̱dhā bā́hu̱vostavá he̱tayáḥ |
tāsā̱mīśā́no bhagavaḥ parā̱cīnā̱ mukhā́ kṛdhi || 10 ||
The eleventh anuvaka
sa̱hasrā́ṇi sahasra̱śo ye ru̱drā adhi̱ bhūmyā̋m |
teṣā́gṃ sahasrayoja̱ne’va̱dhanvā́ni tanmasi |
a̱sminmáha̱tyárṇa̱ve̋’ntaríkṣe bha̱vā adhí |
nīlágrīvāḥ śiti̱kaṇṭhā̋ḥ śa̱rvā a̱dhaḥ kṣámāca̱rāḥ |
nīlágrīvāḥ śiti̱kaṇṭhā̱ divágṃ ru̱drā upáśritāḥ |
ye vṛ̱kṣeṣú sa̱spiñjárā̱ nīlágrīvā̱ vilóhitāḥ |
ye bhū̱tānā̱madhípatayo viśi̱khāsáḥ kapa̱rdináḥ |
ye annéṣu vi̱vidhyánti̱ pātréṣu̱ pibáto̱ janā́n |
ye pa̱thāṃ páthi̱rakṣáya ailabṛ̱dā ya̱vyudháḥ |
ye tī̱rthāní pra̱caránti sṛ̱kāvánto niṣa̱ṅgiṇáḥ |
ya e̱tāvántaśca̱ bhūyā́gṃsaśca̱ diśó ru̱drā vítasthi̱re |
teṣā́gṃ sahasrayoja̱ne’va̱dhanvā́ni tanmasi |
namó ru̱drebhyo̱ ye pṛ́thi̱vyāṃ ye̋’ntaríkṣe̱ ye di̱vi yeṣā̱manna̱ṃ vātó va̱̱rṣamiṣáva̱stebhyo̱ daśa̱ prācī̱rdaśá dakṣi̱ṇā daśá pra̱tīcī̱rdaśodī́cī̱rdaśo̱rdhvāstebhyo̱ nama̱ste nó mṛḍayantu̱ te yaṃ dvi̱ṣmo yaścá no̱ dveṣṭi̱ taṃ vo̱ jambhé dadhāmi || 11 ||
The closing mantras
tryámbakaṃ yajāmahe suga̱ndhiṃ púṣṭi̱vardhánam |
u̱rvā̱ru̱kamíva̱ bandhánānmṛ̱tyormúkṣīya̱ mā’mṛtā̋t |
yo ru̱dro a̱gnau yo a̱psu ya oṣádhīṣu̱ yo ru̱dro viśvā̱ bhuvánā vi̱veśa̱ tasmaí ru̱drāya̱ namó astu |
tamú ṣṭu̱hi̱ yaḥ svi̱ṣuḥ su̱dhanvā̱ yo viśvásya̱ kṣayáti bheṣa̱jasyá |
yakṣvā̋ma̱he saűmana̱sāyá ru̱draṃ namőbhirde̱vamasúraṃ duvasya |
a̱yaṃ me̱ hasto̱ bhagávāna̱yaṃ me̱ bhagávattaraḥ |
a̱yaṃ me̋ vi̱śvabhe̋ṣajo̱’yagṃ śi̱vābhímarśanaḥ |
ye té sa̱hasráma̱yuta̱ṃ pāśā̱ mṛtyo̱ martyā́ya̱ hantáve |
tān ya̱jñasyá mā̱yayā̱ sarvā̱naváyajāmahe |
mṛ̱tyave̱ svāhā́ mṛ̱tyave̱ svāhā̋ |
oṃ namo bhagavate rudrāya viṣṇave mṛtyúrme pā̱hi ||
prāṇānāṃ granthirasi rudro mā́ viśā̱ntakaḥ |
tenānnenā̋pyāya̱sva |
sadāśi̱vom ||
oṃ śāṃti̱ḥ śāṃti̱ḥ śāṃtíḥ ||
Accents: macron below for anudātta, acute for svarita, double acute for the kampa; udātta is unmarked.
About this text
Sri Rudram is the fifth lesson of the fourth book of the Taittiriya Samhita of the Krishna Yajurveda. Prashna here means a lesson, a section of recitation. It is called Namaka from its refrain namo namah. The seventh lesson, with its refrain cha me, is the Chamaka.
In Rudrabhisheka, the Namaka is followed by the Chamaka. Reciting the Namaka eleven times, adding a new anuvaka of the Chamaka each time, is the Ekadasha Rudra. Many recitations are preceded by nyasa, dhyana and laghunyasa, which are not given on this page.
The closing mantras are not part of the lesson itself but are added by the recitation tradition.
The accented text follows the 2026 collection of Vedic hymns prepared by Aprameya of Udupi. How to read the marks: a line below a syllable is anudatta, a vertical stroke above is svarita, a double stroke above is the long svarita. Learning from a teacher remains the right way.
Sources: several. Where versions differ, we have noted it here.
For life today
This text calls Rudra the first divine physician, and the same Rudra also brings illness. That the power to heal and the power to harm rest in one hand is true of every medicine. Hence the prayer: unstring your bow.
Reading the line this hand of mine is blessed, a remedy for all ills, one thinks of every hand that touches a patient. That touch should be auspicious, which means a hand that is washed, gentle and attentive.
Noticed a mistake or a different reading? Tell us.





Leave a comment