श्रीशङ्कराचार्य विरचिता सौन्दर्य लहरी
ನೂರು ಶ್ಲೋಕಗಳು. ಒಂದೇ ಉಸಿರಿನಲ್ಲಿ ಓದಿ ಮುಗಿಸುವಂಥದ್ದಲ್ಲ, ದಿನಕ್ಕೊಂದರಂತೆ ಜೊತೆಯಾಗುವಂಥದ್ದು.
ಈ ಪುಟದಲ್ಲಿ ಶ್ಲೋಕಗಳು ದೇವನಾಗರಿ ಲಿಪಿಯಲ್ಲಿವೆ. ಯಾವುದೇ ಶ್ಲೋಕದ ಚೌಕಟ್ಟಿನ ಮೇಲೆ ಕ್ಲಿಕ್ ಮಾಡಿದರೆ ಅದರ ಪದಶಃ ಅರ್ಥದ ಪುಟ ತೆರೆಯುತ್ತದೆ. ನೂರೂ ಶ್ಲೋಕಗಳಿಗೆ ಆ ಪುಟಗಳು ಸಿದ್ಧವಾಗಿವೆ.
A hundred verses. Not something to finish in one sitting, but a companion for every day, one verse at a time.
On this page the verses are in the Devanagari script. Click any verse to open its page with the word-by-word meaning. All hundred verses have such a page.
ಲಿಪಿ · Script: ಕನ್ನಡ · Kannada · ದೇವನಾಗರಿ · Devanagari · IAST
ಧ್ಯಾನ ಶ್ಲೋಕMeditation verse
सौन्दर्यलहरीकर्त्रे सर्वमङ्गलदायिने ।
शङ्कराचार्यवर्याय यतिराजाय ते नमः ॥
न चेदेवं देवो न खलु कुशलः स्पन्दितुमपि ।
अतस्त्वामाराध्यां हरिहरविरिञ्चादिभिरपि
प्रणन्तुं स्तोतुं वा कथमकृतपुण्यः प्रभवति ॥ 1 ॥ಶ್ಲೋಕ 1ರ ಅರ್ಥ ಓದಿ · Meaning of verse 1 →2तनीयांसं पांसुं तव चरणपङ्केरुहभवं
विरिञ्चिः सञ्चिन्वन् विरचयति लोकानविकलम् ।
वहत्येनं शौरिः कथमपि सहस्रेण शिरसां
हरः सङ्क्षुभ्यैनं भजति भसितोद्धूलनविधिम् ॥ 2 ॥ಶ್ಲೋಕ 2ರ ಅರ್ಥ ಓದಿ · Meaning of verse 2 →3★अविद्यानामन्तस्तिमिरमिहिरद्वीपनगरी
जडानां चैतन्यस्तबकमकरन्दस्रुतिझरी ।
दरिद्राणां चिन्तामणिगुणनिका जन्मजलधौ
निमग्नानां दंष्ट्रा मुररिपुवराहस्य भवति ॥ 3 ॥ಶ್ಲೋಕ 3ರ ಅರ್ಥ ಓದಿ · Meaning of verse 3 →4त्वदन्यः पाणिभ्याम् अभयवरदो दैवतगणः
त्वमेका नैवासि प्रकटितवराभीत्यभिनया ।
भयात्त्रातुं दातुं फलमपि च वाञ्छा समधिकं
शरण्ये लोकानां तव हि चरणावेव निपुणौ ॥ 4 ॥ಶ್ಲೋಕ 4ರ ಅರ್ಥ ಓದಿ · Meaning of verse 4 →5हरिस्त्वामाराध्य प्रणतजनसौभाग्यजननीं
पुरा नारी भूत्वा पुररिपुमपि क्षोभमनयत् ।
स्मरोऽपि त्वां नत्वा रतिनयनलेह्येन वपुषा
मुनीनामप्यन्तः प्रभवति हि मोहाय महताम् ॥ 5 ॥ಶ್ಲೋಕ 5ರ ಅರ್ಥ ಓದಿ · Meaning of verse 5 →6धनुः पौष्पं मौर्वी मधुकरमयी पञ्च विशिखाः
वसन्तः सामन्तो मलयमरुदायोधनरथः ।
तथाप्येकः सर्वं हिमगिरिसुते कामपि कृपां
अपाङ्गात्ते लब्ध्वा जगदिदमनङ्गो विजयते ॥ 6 ॥ಶ್ಲೋಕ 6ರ ಅರ್ಥ ಓದಿ · Meaning of verse 6 →7★क्वणत्काञ्चीदामा करिकलभकुम्भस्तननता
परिक्षीणा मध्ये परिणतशरच्चन्द्रवदना ।
धनुर्बाणान् पाशं सृणिमपि दधाना करतलैः
पुरस्तादास्तां नः पुरमथितुराहोपुरुषिका ॥ 7 ॥ಶ್ಲೋಕ 7ರ ಅರ್ಥ ಓದಿ · Meaning of verse 7 →8सुधासिन्धोर्मध्ये सुरविटपिवाटीपरिवृते
मणिद्वीपे नीपोपवनवति चिन्तामणिगृहे ।
शिवाकारे मञ्चे परमशिवपर्यङ्कनिलयां
भजन्ति त्वां धन्याः कतिचन चिदानन्दलहरीम् ॥ 8 ॥ಶ್ಲೋಕ 8ರ ಅರ್ಥ ಓದಿ · Meaning of verse 8 →9महीं मूलाधारे कमपि मणिपूरे हुतवहं
स्थितं स्वाधिष्ठाने हृदि मरुतमाकाशमुपरि ।
मनोऽपि भ्रूमध्ये सकलमपि भित्वा कुलपथं
सहस्रारे पद्मे सह रहसि पत्या विहरसे ॥ 9 ॥ಶ್ಲೋಕ 9ರ ಅರ್ಥ ಓದಿ · Meaning of verse 9 →10सुधाधारासारैः चरणयुगलान्तर्विगलितैः
प्रपञ्चं सिञ्चन्ती पुनरपि रसाम्नायमहसः ।
अवाप्य स्वां भूमिं भुजगनिभमध्युष्टवलयं
स्वमात्मानं कृत्वा स्वपिषि कुलकुण्डे कुहरिणि ॥ 10 ॥ಶ್ಲೋಕ 10ರ ಅರ್ಥ ಓದಿ · Meaning of verse 10 →11★चतुर्भिः श्रीकण्ठैः शिवयुवतिभिः पञ्चभिरपि
प्रभिन्नाभिः शम्भोः नवभिरपि मूलप्रकृतिभिः ।
चतुश्चत्वारिंशत् वसुदलकलाश्रत्रिवलय
त्रिरेखाभिः सार्धं तव शरणकोणाः परिणताः ॥ 11 ॥ಶ್ಲೋಕ 11ರ ಅರ್ಥ ಓದಿ · Meaning of verse 11 →12त्वदीयं सौन्दर्यं तुहिनगिरिकन्ये तुलयितुं
कवीन्द्राः कल्पन्ते कथमपि विरिञ्चिप्रभृतयः ।
यदालोकौत्सुक्यात् अमरललना यान्ति मनसा
तपोभिर्दुष्प्रापाम् अपि गिरिशसायुज्यपदवीम् ॥ 12 ॥ಶ್ಲೋಕ 12ರ ಅರ್ಥ ಓದಿ · Meaning of verse 12 →13नरं वर्षीयांसं नयनविरसं नर्मसु जडं
तवापाङ्गालोके पतितमनुधावन्ति शतशः ।
गलद्वेणीबन्धाः कुचकलशविस्रस्तसिचया
हठात्त्रुट्यत्काञ्च्यो विगलितदुकूला युवतयः ॥ 13 ॥ಶ್ಲೋಕ 13ರ ಅರ್ಥ ಓದಿ · Meaning of verse 13 →14क्षितौ षट्पञ्चाशद् द्विसमधिकपञ्चाशदुदके
हुताशे द्वाषष्टिः चतुरधिकपञ्चाशदनिले ।
दिवि द्विष्षट्त्रिंशत् मनसि च चतुष्षष्टिरिति ये
मयूखास्तेषामप्युपरि तव पादाम्बुजयुगम् ॥ 14 ॥ಶ್ಲೋಕ 14ರ ಅರ್ಥ ಓದಿ · Meaning of verse 14 →15★शरज्ज्योत्स्नाशुद्धां शशियुतजटाजूटमकुटां
वरत्रासत्राणस्फटिकघटिकापुस्तककराम् ।
सकृन्न त्वा नत्वा कथमिव सतां सन्निदधते
मधुक्षीरद्राक्षा मधुरिमधुरीणाः फणितयः ॥ 15॥ಶ್ಲೋಕ 15ರ ಅರ್ಥ ಓದಿ · Meaning of verse 15 →16कवीन्द्राणां चेतः कमलवनबालातपरुचिं
भजन्ते ये सन्तः कतिचिदरुणामेव भवतीम् ।
विरिञ्चिप्रेयस्याः तरुणतरशृङ्गारलहरी
गभीराभिर्वाग्भिः विदधति सतां रञ्जनममी ॥ 16 ॥ಶ್ಲೋಕ 16ರ ಅರ್ಥ ಓದಿ · Meaning of verse 16 →17सवित्रीभिर्वाचां शशिमणिशिलाभङ्गरुचिभिः
वशिन्याद्याभिस्त्वां सह जननि सञ्चिन्तयति यः ।
स कर्ता काव्यानां भवति महतां भङ्गिरुचिभिः
वचोभिर्वाग्देवीवदनकमलामोदमधुरैः ॥ 17 ॥ಶ್ಲೋಕ 17ರ ಅರ್ಥ ಓದಿ · Meaning of verse 17 →18तनुच्छायाभिस्ते तरुणतरणिश्रीसरणिभिः
दिवं सर्वामुर्वीम् अरुणिमनि मग्नां स्मरति यः ।
भवन्त्यस्य त्रस्यद्वनहरिणशालीननयनाः
सहोर्वश्या वश्याः कति कति न गीर्वाणगणिकाः ॥ 18 ॥ಶ್ಲೋಕ 18ರ ಅರ್ಥ ಓದಿ · Meaning of verse 18 →19मुखं बिन्दुं कृत्वा कुचयुगमधस्तस्य तदधो
हरार्धं ध्यायेद्यो हरमहिषि ते मन्मथकलाम् ।
स सद्यः सङ्क्षोभं नयति वनिता इत्यतिलघु
त्रिलोकीमप्याशु भ्रमयति रवीन्दुस्तनयुगाम् ॥ 19 ॥ಶ್ಲೋಕ 19ರ ಅರ್ಥ ಓದಿ · Meaning of verse 19 →20★किरन्तीमङ्गेभ्यः किरणनिकुरम्बामृतरसं
हृदि त्वामाधत्ते हिमकरशिलामूर्तिमिव यः ।
स सर्पाणां दर्पं शमयति शकुन्ताधिप इव
ज्वरप्लुष्टान् दृष्ट्या सुखयति सुधाधारसिरया ॥ 20 ॥ಶ್ಲೋಕ 20ರ ಅರ್ಥ ಓದಿ · Meaning of verse 20 →21तटिल्लेखातन्वीं तपनशशिवैश्वानरमयीं
निषण्णां षण्णाम् अप्युपरि कमलानां तव कलाम् ।
महापद्माटव्यां मृदितमलमायेन मनसा
महान्तः पश्यन्तो दधति परमाह्लादलहरीम् ॥ 21 ॥ಶ್ಲೋಕ 21ರ ಅರ್ಥ ಓದಿ · Meaning of verse 21 →22★भवानि त्वं दासे मयि वितर दृष्टिं सकरुणा
मिति स्तोतुं वाञ्छन् कथयति भवानि त्वमिति यः ।
तदैव त्वं तस्मै दिशसि निजसायुज्यपदवीं
मुकुन्दब्रह्मेन्द्र स्फुटमकुटनीराजितपदाम् ॥ 22 ॥ಶ್ಲೋಕ 22ರ ಅರ್ಥ ಓದಿ · Meaning of verse 22 →23त्वया हृत्वा वामं वपुरपरितृप्तेन मनसा
शरीरार्धं शम्भोः अपरमपि शङ्के हृतमभूत् ।
यदेतत्त्वद्रूपं सकलमरुणाभं त्रिनयनं
कुचाभ्यामानम्रं कुटिलशशिचूडालमकुटम् ॥ 23 ॥ಶ್ಲೋಕ 23ರ ಅರ್ಥ ಓದಿ · Meaning of verse 23 →24जगत्सूते धाता हरिरवति रुद्रः क्षपयते
तिरस्कुर्वन्नेतत् स्वमपि वपुरीशस्तिरयति ।
सदापूर्वः सर्वं तदिदमनुगृह्णाति च शिव
स्तवाज्ञामालम्ब्य क्षणचलितयोर्भ्रूलतिकयोः ॥ 24 ॥ಶ್ಲೋಕ 24ರ ಅರ್ಥ ಓದಿ · Meaning of verse 24 →25त्रयाणां देवानां त्रिगुणजनितानां तव शिवे
भवेत् पूजा पूजा तव चरणयोर्या विरचिता ।
तथा हि त्वत्पादोद् वहनमणिपीठस्य निकटे
स्थिता ह्येते शश्वन् मुकुलितकरोत्तंसमकुटाः ॥ 25 ॥ಶ್ಲೋಕ 25ರ ಅರ್ಥ ಓದಿ · Meaning of verse 25 →26विरिञ्चिः पञ्चत्वं व्रजति हरिराप्नोति विरतिं
विनाशं कीनाशो भजति धनदो याति निधनम् ।
वितन्द्री माहेन्द्री विततिरपि संमीलितदृशा
महासंहारेऽस्मिन् विहरति सति त्वत्पतिरसौ ॥ 26 ॥ಶ್ಲೋಕ 26ರ ಅರ್ಥ ಓದಿ · Meaning of verse 26 →27★जपो जल्पः शिल्पं सकलमपि मुद्राविरचना
गतिः प्रादक्षिण्य क्रमणमशनाद्याहुतिविधिः ।
प्रणामस्संवेशः सुखमखिलमात्मार्पणदृशा
सपर्यापर्यायः तव भवतु यन्मे विलसितम् ॥ 27 ॥ಶ್ಲೋಕ 27ರ ಅರ್ಥ ಓದಿ · Meaning of verse 27 →28★सुधामप्यास्वाद्य प्रतिभयजरामृत्युहरिणीं
विपद्यन्ते विश्वे विधिशतमखाद्या दिविषदः ।
करालं यत्क्ष्वेलं कबलितवतः कालकलना
न शम्भोस्तन्मूलं तव जननि ताटङ्कमहिमा ॥ 28 ॥ಶ್ಲೋಕ 28ರ ಅರ್ಥ ಓದಿ · Meaning of verse 28 →29किरीटं वैरिञ्चं परिहर पुरः कैटभभिदः
कठोरे कोटीरे स्खलसि जहि जम्भारिमुकुटम् ।
प्रणम्रेष्वेतेषु प्रसभमुपयातस्य भवनं
भवस्याभ्युत्थाने तव परिजनोक्तिर्विजयते ॥ 29 ॥ಶ್ಲೋಕ 29ರ ಅರ್ಥ ಓದಿ · Meaning of verse 29 →30स्वदेहोद्भूताभिः घृणिभिरणिमाद्याभिरभितो
निषेव्ये नित्ये त्वाम् अहमिति सदा भावयति यः ।
किमाश्चर्यं तस्य त्रिनयनसमृद्धिं तृणयतो
महासंवर्ताग्निर्विरचयति निराजनविधिम् ॥ 30 ॥ಶ್ಲೋಕ 30ರ ಅರ್ಥ ಓದಿ · Meaning of verse 30 →31चतुष्षष्ट्या तन्त्रैः सकलमतिसन्धाय भुवनं
स्थितस्तत्तत्सिद्धि प्रसवपरतन्त्रैः पशुपतिः ।
पुनस्त्वन्निर्बन्धा दखिलपुरुषार्थैकघटना
स्वतन्त्रं ते तन्त्रं क्षितितलमवातीतरदिदम् ॥ 31 ॥ಶ್ಲೋಕ 31ರ ಅರ್ಥ ಓದಿ · Meaning of verse 31 →32★शिवः शक्तिः कामः क्षितिरथ रविः शीतकिरणः
स्मरो हंसः शक्रः तदनु च परामारहरयः ।
अमी हृल्लेखाभिः तिसृभिरवसानेषु घटिता
भजन्ते वर्णास्ते तव जननि नामावयवताम् ॥ 32 ॥ಶ್ಲೋಕ 32ರ ಅರ್ಥ ಓದಿ · Meaning of verse 32 →33स्मरं योनिं लक्ष्मीं त्रितयमिदमादौ तव मनो
र्निधायैके नित्ये निरवधिमहाभोगरसिकाः ।
भजन्ति त्वां चिन्ता मणिगुननिबद्धाक्षवलयाः
शिवाग्नौ जुह्वन्तः सुरभिघृतधाराहुतिशतैः ॥ 33 ॥ಶ್ಲೋಕ 33ರ ಅರ್ಥ ಓದಿ · Meaning of verse 33 →34शरीरं त्वं शम्भोः शशिमिहिरवक्षोरुहयुगं
तवात्मानं मन्ये भगवति नवात्मानमनघम् ।
अतश्शेषश्शेषी त्ययमुभयसाधारणतया
स्थितः सम्बन्धो वां समरसपरानन्दपरयोः ॥ 34 ॥ಶ್ಲೋಕ 34ರ ಅರ್ಥ ಓದಿ · Meaning of verse 34 →35मनस्त्वं व्योम त्वं मरुदसि मरुत्सारथिरसि
त्वमापस्त्वं भूमिः त्वयि परिणतायां न हि परम् ।
त्वमेव स्वात्मानं परिणमयितुं विश्ववपुषा
चिदानन्दाकारं शिवयुवति भावेन बिभृषे ॥ 35 ॥ಶ್ಲೋಕ 35ರ ಅರ್ಥ ಓದಿ · Meaning of verse 35 →36तवाज्ञाचक्रस्थं तपनशशिकोटिद्युतिधरं
परं शम्भुं वन्दे परिमिलितपार्श्वं परचिता ।
यमाराध्यन् भक्त्या रविशशिशुचीनामविषये
निरालोकेऽलोके निवसति हि भालोकभुवने ॥ 36 ॥ಶ್ಲೋಕ 36ರ ಅರ್ಥ ಓದಿ · Meaning of verse 36 →37विशुद्धौ ते शुद्ध स्फटिकविशदं व्योमजनकं
शिवं सेवे देवीम् अपि शिवसमानव्यवसिताम् ।
ययोः कान्त्या यान्त्याः शशिकिरणसारूप्यसरणे
विधूतान्तर्ध्वान्ता विलसति चकोरीव जगती ॥ 37 ॥ಶ್ಲೋಕ 37ರ ಅರ್ಥ ಓದಿ · Meaning of verse 37 →38समुन्मीलत् संवित् कमलमकरन्दैकरसिकं
भजे हंसद्वन्द्वं किमपि महतां मानसचरम् ।
यदालापादष्टादशगुणितविद्यापरिणति
र्यदादत्ते दोषाद् गुणमखिलमद्भ्यः पय इव ॥ 38 ॥ಶ್ಲೋಕ 38ರ ಅರ್ಥ ಓದಿ · Meaning of verse 38 →39तव स्वाधिष्ठाने हुतवहमधिष्ठाय निरतं
तमीडे संवर्तं जननि महतीं तां च समयाम् ।
यदालोके लोकान् दहति महति क्रोधकलिते
दयार्द्रा या दृष्टिः शिशिरमुपचारं रचयति ॥ 39 ॥ಶ್ಲೋಕ 39ರ ಅರ್ಥ ಓದಿ · Meaning of verse 39 →40तटित्त्वन्तं शक्त्या तिमिरपरिपन्थिफुरणया
स्फुरन्नानारत्नाभरणपरिणद्धेन्द्रधनुषम् ।
तव श्यामं मेघं कमपि मणिपूरैकशरणं
निषेवे वर्षन्तं हरमिहिरतप्तं त्रिभुवनम् ॥ 40 ॥ಶ್ಲೋಕ 40ರ ಅರ್ಥ ಓದಿ · Meaning of verse 40 →41तवाधारे मूले सह समयया लास्यपरया
नवात्मानं मन्ये नवरसमहाताण्डवनटम् ।
उभाभ्यामेताभ्याम् उदयविधिमुद्दिश्य दयया
सनाथाभ्यां जज्ञे जनकजननीमज्जगदिदम् ॥ 41 ॥ಶ್ಲೋಕ 41ರ ಅರ್ಥ ಓದಿ · Meaning of verse 41 →42गतैर्माणिक्यत्वं गगनमणिभिः सान्द्रघटितं
किरीटं ते हैमं हिमगिरिसुते कीर्तयति यः ।
स नीडेयच्छायाच्छुरणशबलं चन्द्रशकलं
धनुः शौनासीरं किमिति न निबध्नाति धिषणाम् ॥ 42 ॥ಶ್ಲೋಕ 42ರ ಅರ್ಥ ಓದಿ · Meaning of verse 42 →43★धुनोतु ध्वान्तं नः तुलितदलितेन्दीवरवनं
घनस्निग्धश्लक्ष्णं चिकुरनिकुरुम्बं तव शिवे ।
यदीयं सौरभ्यं सहजमुपलब्धुं सुमनसो
वसन्त्यस्मिन् मन्ये वलमथनवाटीविटपिनाम् ॥ 43 ॥ಶ್ಲೋಕ 43ರ ಅರ್ಥ ಓದಿ · Meaning of verse 43 →44★तनोतु क्षेमं नः तव वदनसौन्दर्यलहरी
परीवाहस्रोतः सरणिरिव सीमन्तसरणिः ।
वहन्ती सिन्दूरं प्रबलकबरीभारतिमिर
द्विषां बृन्दैर्बन्दीकृतमिव नवीनार्ककिरणम् ॥ 44 ॥ಶ್ಲೋಕ 44ರ ಅರ್ಥ ಓದಿ · Meaning of verse 44 →45अरालैः स्वाभाव्या दलिकलभसश्रीभिरलकैः
परीतं ते वक्त्रं परिहसति पङ्केरुहरुचिम् ।
दरस्मेरे यस्मिन् दशनरुचिकिञ्जल्करुचिरे
सुगन्धौ माद्यन्ति स्मरदहनचक्षुर्मधुलिहः ॥ 45 ॥ಶ್ಲೋಕ 45ರ ಅರ್ಥ ಓದಿ · Meaning of verse 45 →46ललाटं लावण्य द्युतिविमलमाभाति तव य
द्द्वितीयं तन्मन्ये मकुटघटितं चन्द्रशकलम् ।
विपर्यासन्यासात् उभयमपि सम्भूय च मिथः
सुधालेपस्यूतिः परिणमति राकाहिमकरः ॥ 46 ॥ಶ್ಲೋಕ 46ರ ಅರ್ಥ ಓದಿ · Meaning of verse 46 →47भ्रुवौ भुग्ने किञ्चित् भुवनभयभङ्गव्यसनिनि
त्वदीये नेत्राभ्यां मधुकररुचिभ्यां धृतगुणम् ।
धनुर्मन्ये सव्येतरकरगृहीतं रतिपतेः
प्रकोष्ठे मुष्टौ च स्थगयति निगूढान्तरमुमे ॥ 47 ॥ಶ್ಲೋಕ 47ರ ಅರ್ಥ ಓದಿ · Meaning of verse 47 →48अहः सूते सव्यं तव नयनमर्कात्मकतया
त्रियामां वामं ते सृजति रजनीनायकतया ।
तृतीया ते दृष्टिः दरदलितहेमाम्बुजरुचिः
समाधत्ते सन्ध्यां दिवसनिशयोरन्तरचरीम् ॥ 48 ॥ಶ್ಲೋಕ 48ರ ಅರ್ಥ ಓದಿ · Meaning of verse 48 →49विशाला कल्याणी स्फुटरुचिरयोध्या कुवलयैः
कृपाधाराधारा किमपि मधुराभोगवतिका ।
अवन्ती दृष्टिस्ते बहुनगरविस्तारविजया
ध्रुवं तत्तन्नाम व्यवहरणयोग्या विजयते ॥ 49 ॥ಶ್ಲೋಕ 49ರ ಅರ್ಥ ಓದಿ · Meaning of verse 49 →50कवीनां सन्दर्भस्तबकमकरन्दैकरसिकं
कटाक्षव्याक्षेप भ्रमरकलभौ कर्णयुगलम् ।
अमुञ्चन्तौ दृष्ट्वा तव नवरसास्वादतरला
वसूयासंसर्गात् अलिकनयनं किञ्चिदरुणम् ॥ 50 ॥ಶ್ಲೋಕ 50ರ ಅರ್ಥ ಓದಿ · Meaning of verse 50 →51★शिवे शृङ्गारार्द्रा तदितरजने कुत्सनपरा
सरोषा गङ्गायां गिरिशचरिते विस्मयवती ।
हराहिभ्यो भीता सरसिरुहसौभाग्यजयिनी (जननी)
सखीषु स्मेरा ते मयि जननी दृष्टिः सकरुणा ॥ 51 ॥ಶ್ಲೋಕ 51ರ ಅರ್ಥ ಓದಿ · Meaning of verse 51 →52गते कर्णाभ्यर्णं गरुत इव पक्ष्माणि दधती
पुरां भेत्तुश्चित्तप्रशमरसविद्रावणफले ।
इमे नेत्रे गोत्राधरपतिकुलोत्तंसकलिके
तवाकर्णाकृष्ट स्मरशरविलासं कलयतः ॥ 52 ॥ಶ್ಲೋಕ 52ರ ಅರ್ಥ ಓದಿ · Meaning of verse 52 →53विभक्तत्रैवर्ण्यं व्यतिकरितलीलाञ्जनतया
विभाति त्वन्नेत्र त्रितयमिदमीशानदयिते ।
पुनः स्रष्टुं देवान् द्रुहिणहरिरुद्रानुपरतान्
रजः सत्त्वं बिभ्रत् तम इति गुणानां त्रयमिव ॥ 53 ॥ಶ್ಲೋಕ 53ರ ಅರ್ಥ ಓದಿ · Meaning of verse 53 →54पवित्रीकर्तुं नः पशुपतिपराधीनहृदये
दयामित्रैर्नेत्रैररुणधवलश्यामरुचिभिः ।
नदः शोणो गङ्गा तपनतनयेति ध्रुवममुं
त्रयाणां तीर्थानाम् उपनयसि सम्भेदमनघम् ॥ 54 ॥ಶ್ಲೋಕ 54ರ ಅರ್ಥ ಓದಿ · Meaning of verse 54 →55निमेषोन्मेषाभ्यां प्रलयमुदयं याति जगती
तवेत्याहुः सन्तो धरणिधरराजन्यतनये ।
त्वदुन्मेषाज्जातं जगदिदमशेषं प्रलयतः
परित्रातुं शङ्के परिहृतनिमेषास्तव दृशः ॥ 55 ॥ಶ್ಲೋಕ 55ರ ಅರ್ಥ ಓದಿ · Meaning of verse 55 →56तवापर्णे कर्णे जपनयनपैशुन्यचकिता
निलीयन्ते तोये नियतमनिमेषाः शफरिकाः ।
इयं च श्रीर्बद्धच्छदपुटकवाटं कुवलयं
जहाति प्रत्यूषे निशि च विघटय्य प्रविशति ॥ 56 ॥ಶ್ಲೋಕ 56ರ ಅರ್ಥ ಓದಿ · Meaning of verse 56 →57★दृशा द्राघीयस्या दरदलितनीलोत्पलरुचा
दवीयांसं दीनं स्नपय कृपया मामपि शिवे ।
अनेनायं धन्यो भवति न च ते हानिरियता
वने वा हर्म्ये वा समकरनिपातो हिमकरः ॥ 57 ॥ಶ್ಲೋಕ 57ರ ಅರ್ಥ ಓದಿ · Meaning of verse 57 →58★अरालं ते पालीयुगलमगराजन्यतनये
न केषामाधत्ते कुसुमशरकोदण्डकुतुकम् ।
तिरश्चीनो यत्र श्रवणपथमुल्लङ्घ्य विलस
न्नपाङ्गव्यासङ्गो दिशति शरसन्धानधिषणाम् ॥ 58 ॥ಶ್ಲೋಕ 58ರ ಅರ್ಥ ಓದಿ · Meaning of verse 58 →59स्फुरद्गण्डाभोग प्रतिफलितताटङ्कयुगलं
चतुश्चक्रं मन्ये तव मुखमिदं मन्मथरथम् ।
यमारुह्य द्रुह्यत्यवनिरथमर्केन्दुचरणं
महावीरो मारः प्रमथपतये सज्जितवते ॥ 59 ॥ಶ್ಲೋಕ 59ರ ಅರ್ಥ ಓದಿ · Meaning of verse 59 →60सरस्वत्याः सूक्तीरमृतलहरीकौशलहरीः
पिबन्त्याः शर्वाणि श्रवणचुलुकाभ्यामविरलम् ।
चमत्कारश्लाघा चलितशिरसः कुण्डलगणो
झणत्कारैस्तारैः प्रतिवचनमाचष्ट इव ते ॥ 60 ॥ಶ್ಲೋಕ 60ರ ಅರ್ಥ ಓದಿ · Meaning of verse 60 →61असौ नासावंशः तुहिनगिरिवंशध्वजपटि
त्वदीयो नेदीयः फलतु फलमस्माकमुचितम् ।
वहन्नन्तर्मुक्ताः शिशिरतरनिश्वासगलितं
समृद्ध्या यत्तासां बहिरपि च मुक्तामणिधरः ॥ 61 ॥ಶ್ಲೋಕ 61ರ ಅರ್ಥ ಓದಿ · Meaning of verse 61 →62प्रकृत्या रक्तायाः तव सुदति दन्तच्छदरुचेः
प्रवक्ष्ये सादृश्यं जनयतु फलं विद्रुमलता ।
न बिम्बं तद्बिम्ब प्रतिफलनरागादरुणितं
तुलामध्यारोढुं कथमिव विलज्जेत कलया ॥ 62 ॥ಶ್ಲೋಕ 62ರ ಅರ್ಥ ಓದಿ · Meaning of verse 62 →63स्मितज्योत्स्नाजालं तव वदनचन्द्रस्य पिबतां
चकोराणामासीत् अतिरसतया चञ्चुजडिमा ।
अतस्ते शीतांशोरमृतलहरीमम्लरुचयः
पिबन्ति स्वच्छन्दं निशि निशि भृशं काञ्जिकधिया ॥ 63 ॥ಶ್ಲೋಕ 63ರ ಅರ್ಥ ಓದಿ · Meaning of verse 63 →64अविश्रान्तं पत्युर्गुणगणकथाम्रेडनजपा
जपापुष्पच्छाया तव जननि जिह्वा जयति सा ।
यदग्रासीनायाः स्फटिकदृषदच्छच्छविमयी
सरस्वत्या मूर्तिः परिणमति माणिक्यवपुषा ॥ 64 ॥ಶ್ಲೋಕ 64ರ ಅರ್ಥ ಓದಿ · Meaning of verse 64 →65रणे जित्वा दैत्यान् अपहृतशिरस्त्रैः कवचिभिर्
निवृत्तैश्चण्डांश त्रिपुरहरनिर्माल्यविमुखैः ।
विशाखेन्द्रोपेन्द्रैः शशिविशदकर्पूरशकला
विलीयन्ते मातः तव वदनताम्बूलकबलाः ॥ 65 ॥ಶ್ಲೋಕ 65ರ ಅರ್ಥ ಓದಿ · Meaning of verse 65 →66★विपञ्च्या गायन्ती विविधमपदानं पशुपतेः
त्वयारब्धे वक्तुं चलितशिरसा साधुवचने ।
तदीयैर्माधुर्यैरपलपिततन्त्रीकलरवां
निजां वीणां वाणी निचुलयति चोलेन निभृतम् ॥ 66 ॥ಶ್ಲೋಕ 66ರ ಅರ್ಥ ಓದಿ · Meaning of verse 66 →67कराग्रेण स्पृष्टं तुहिनगिरिणा वत्सलतया
गिरीशेनोदस्तं मुहुरधरपानाकुलतया ।
करग्राह्यं शम्भोः मुखमुकुरवृन्तं गिरिसुते
कथङ्कारं ब्रूमस्तव चिबुकमौपम्यरहितम् ॥ 67 ॥ಶ್ಲೋಕ 67ರ ಅರ್ಥ ಓದಿ · Meaning of verse 67 →68भुजाश्लेषान् नित्यं पुरदमयितुः कण्टकवती
तव ग्रीवा धत्ते मुखकमलनालश्रियमियम् ।
स्वतः श्वेता काला गुरुबहुलजम्बालमलिना
मृणालीलालित्यं वहति यदधो हारलतिका ॥ 68 ॥ಶ್ಲೋಕ 68ರ ಅರ್ಥ ಓದಿ · Meaning of verse 68 →69गले रेखास्तिस्रो गतिगमकगीतैकनिपुणे
विवाहव्यानद्ध प्रगुणगुणसङ्ख्याप्रतिभुवः ।
विराजन्ते नानाविधमधुररागाकरभुवां
त्रयाणां ग्रामाणां स्थितिनियमसीमान इव ते ॥ 69 ॥ಶ್ಲೋಕ 69ರ ಅರ್ಥ ಓದಿ · Meaning of verse 69 →70मृणालीमृद्वीनां तव भुजलतानां चतसृणां
चतुर्भिः सौन्दर्यं सरसिजभवः स्तौति वदनैः ।
नखेभ्यः सन्त्रस्यन् प्रथममथनादन्धकरिपो
श्चतुर्णां शीर्षाणां सममभयहस्तार्पणधिया ॥ 70 ॥ಶ್ಲೋಕ 70ರ ಅರ್ಥ ಓದಿ · Meaning of verse 70 →71नखानामुद्द्योतैर्नवनलिनरागं विहसतां
कराणां ते कान्तिं कथय कथयामः कथमुमे ।
कयाचिद्वा साम्यं भजतु कलया हन्त कमलं
यदि क्रीडल्लक्ष्मीचरणतललाक्षारसछणम् ॥ 71 ॥ಶ್ಲೋಕ 71ರ ಅರ್ಥ ಓದಿ · Meaning of verse 71 →72समं देवि स्कन्दद्विपवदनपीतं स्तनयुगं
तवेदं नः खेदं हरतु सततं प्रस्नुतमुखम् ।
यदालोक्याशङ्काकुलितहृदयो हासजनकः
स्वकुम्भौ हेरम्बः परिमृशति हस्तेन झडिति ॥ 72 ॥ಶ್ಲೋಕ 72ರ ಅರ್ಥ ಓದಿ · Meaning of verse 72 →73अमू ते वक्षोजावमृतरसमाणिक्यकुतुपौ
न सन्देहस्पन्दो नगपतिपताके मनसि नः ।
पिबन्तौ तौ यस्मात् अविदितवधूसङ्गरसिकौ
कुमारावद्यापि द्विरदवदनक्रौञ्चदलनौ ॥ 73 ॥ಶ್ಲೋಕ 73ರ ಅರ್ಥ ಓದಿ · Meaning of verse 73 →74वहत्यम्ब स्तम्बेरमदनुजकुम्भप्रकृतिभिः
समारब्धां मुक्तामणिभिरमलां हारलतिकाम् ।
कुचाभोगो बिम्बाधररुचिभिरन्तः शबलितां
प्रतापव्यामिश्रां पुरदमयितुः कीर्तिमिव ते ॥ 74 ॥ಶ್ಲೋಕ 74ರ ಅರ್ಥ ಓದಿ · Meaning of verse 74 →75★तव स्तन्यं मन्ये धरणिधरकन्ये हृदयतः
पयःपारावारः परिवहति सारस्वतमिव ।
दयावत्या दत्तं द्रविडशिशुरास्वाद्य तव यत्
कवीनां प्रौढानाम् अजनि कमनीयः कवयिता ॥ 75 ॥ಶ್ಲೋಕ 75ರ ಅರ್ಥ ಓದಿ · Meaning of verse 75 →76हरक्रोधज्वालावलिभिरवलीढेन वपुषा
गभीरे ते नाभीसरसि कृतसङ्गो मनसिजः ।
समुत्तस्थौ तस्मात् अचलतनये धूमलतिका
जनस्तां जानीते तव जननि रोमावलिरिति ॥ 76 ॥ಶ್ಲೋಕ 76ರ ಅರ್ಥ ಓದಿ · Meaning of verse 76 →77यदेतत् कालिन्दी तनुतरतरङ्गाकृति शिवे
कृशे मध्ये किञ्चित् जननि तव यद्भाति सुधियाम् ।
विमर्दादन्योऽन्यं कुचकलशयोरन्तरगतं
तनूभूतं व्योम प्रविशदिव नाभिं कुहरिणीम् ॥ 77 ॥ಶ್ಲೋಕ 77ರ ಅರ್ಥ ಓದಿ · Meaning of verse 77 →78स्थिरो गङ्गावर्तः स्तनमुकुलरोमावलिलता
कलावालं कुण्डं कुसुमशरतेजोहुतभुजः ।
रतेर्लीलागारं किमपि तव नाभिर्गिरिसुते
बिलद्वारं सिद्धेर्गिरिशनयनानां विजयते ॥ 78 ॥ಶ್ಲೋಕ 78ರ ಅರ್ಥ ಓದಿ · Meaning of verse 78 →79निसर्गक्षीणस्य स्तनतटभरेण क्लमजुषो
नमन्मूर्तेर्नारीतिलक शनकैस्त्रुट्यत इव ।
चिरं ते मध्यस्य त्रुटिततटिनीतीरतरुणा
समावस्थास्थेम्नो भवतु कुशलं शैलतनये ॥ 79 ॥ಶ್ಲೋಕ 79ರ ಅರ್ಥ ಓದಿ · Meaning of verse 79 →80कुचौ सद्यःस्विद्यत्तटघटितकूर्पासभिदुरौ
कषन्तौ दोर्मूले कनककलशाभौ कलयता ।
तव त्रातुं भङ्गा दलमिति वलग्नं तनुभुवा
त्रिधा नद्धं देवि त्रिवलि लवलीवल्लिभिरिव ॥ 80 ॥ಶ್ಲೋಕ 80ರ ಅರ್ಥ ಓದಿ · Meaning of verse 80 →81गुरुत्वं विस्तारं क्षितिधरपतिः पार्वति निजा
न्नितम्बादाच्छिद्य त्वयि हरणरूपेण निदधे ।
अतस्ते विस्तीर्णो गुरुरयमशेषां वसुमतीं
नितम्बप्राग्भारः स्थगयति लघुत्वं नयति च ॥ 81 ॥ಶ್ಲೋಕ 81ರ ಅರ್ಥ ಓದಿ · Meaning of verse 81 →82करीन्द्राणां शुण्डान् कनककदलीकाण्डपटली
मुभाभ्यामूरुभ्याम् उभयमपि निर्जित्य भवती ।
सुवृत्ताभ्यां पत्युः प्रणतिकठिनाभ्यां गिरिसुते
विधिज्ञ्ये जानुभ्यां विबुधकरिकुम्भद्वयमसि ॥ 82 ॥ಶ್ಲೋಕ 82ರ ಅರ್ಥ ಓದಿ · Meaning of verse 82 →83पराजेतुं रुद्रं द्विगुणशरगर्भौ गिरिसुते
निषङ्गौ जङ्घे ते विषमविशिखो बाढमकृत ।
यदग्रे दृश्यन्ते दशशरफलाः पादयुगली
नखाग्रच्छद्मानः सुरमकुटशाणैकनिशिताः ॥ 83 ॥ಶ್ಲೋಕ 83ರ ಅರ್ಥ ಓದಿ · Meaning of verse 83 →84श्रुतीनां मूर्धानो दधति तव यौ शेखरतया
ममाप्येतौ मातः शिरसि दयया धेहि चरणौ ।
ययोः पाद्यं पाथः पशुपतिजटाजूटतटिनी
ययोर्लाक्षालक्ष्मीररुणहरिचूडामणिरुचिः ॥ 84 ॥ಶ್ಲೋಕ 84ರ ಅರ್ಥ ಓದಿ · Meaning of verse 84 →85नमोवाकं ब्रूमो नयनरमणीयाय पदयो
स्तवास्मै द्वन्द्वाय स्फुटरुचिरसालक्तकवते ।
असूयत्यत्यन्तं यदभिहननाय स्पृहयते
पशूनामीशानः प्रमदवनकङ्केलितरवे ॥ 85 ॥ಶ್ಲೋಕ 85ರ ಅರ್ಥ ಓದಿ · Meaning of verse 85 →86मृषा कृत्वा गोत्रस्खलनमथ वैलक्ष्यनमितं
ललाटे भर्तारं चरणकमले ताडयति ते ।
चिरादन्तःशल्यं दहनकृतमुन्मूलितवता
तुलाकोटिक्वाणैः किलिकिलितमीशानरिपुणा ॥ 86 ॥ಶ್ಲೋಕ 86ರ ಅರ್ಥ ಓದಿ · Meaning of verse 86 →87हिमानीहन्तव्यं हिमगिरिनिवासैकचतुरौ
निशायां निद्राणं निशि चरमभागे च विशदौ ।
वरं लक्ष्मीपात्रं श्रियमतिसृजन्तौ समयिनां
सरोजं त्वत्पादौ जननि जयतश्चित्रमिह किम् ॥ 87 ॥ಶ್ಲೋಕ 87ರ ಅರ್ಥ ಓದಿ · Meaning of verse 87 →88पदं ते कीर्तीनां प्रपदमपदं देवि विपदां
कथं नीतं सद्भिः कठिनकमठीकर्परतुलाम् ।
कथं वा बाहुभ्याम् उपयमनकाले पुरभिदा
यदादाय न्यस्तं दृषदि दयमानेन मनसा ॥ 88 ॥ಶ್ಲೋಕ 88ರ ಅರ್ಥ ಓದಿ · Meaning of verse 88 →89नखैर्नाकस्त्रीणां करकमलसङ्कोचशशिभि
स्तरूणां दिव्यानां हसत इव ते चण्डि चरणौ ।
फलानि स्वःस्थेभ्यः किसलयकराग्रेण ददतां
दरिद्रेभ्यो भद्रां श्रियमनिशमह्नाय ददतौ ॥ 89 ॥ಶ್ಲೋಕ 89ರ ಅರ್ಥ ಓದಿ · Meaning of verse 89 →90★ददाने दीनेभ्यः श्रियमनिशमाशानुसदृशी
ममन्दं सौन्दर्य प्रकरमकरन्दं विकिरति ।
तवास्मिन् मन्दारस्तबकसुभगे यातु चरणे
निमज्जन्मज्जीवः करणचरणः षट्चरणताम् ॥ 90 ॥ಶ್ಲೋಕ 90ರ ಅರ್ಥ ಓದಿ · Meaning of verse 90 →91पदन्यासक्रीडा परिचयमिवारब्धुमनसः
स्खलन्तस्ते खेलं भवनकलहंसा न जहति ।
अतस्तेषां शिक्षां सुभगमणिमञ्जीररणित
च्छलादाचक्षाणं चरणकमलं चारुचरिते ॥ 91 ॥ಶ್ಲೋಕ 91ರ ಅರ್ಥ ಓದಿ · Meaning of verse 91 →92गतास्ते मञ्चत्वं द्रुहिणहरिरुद्रेश्वरभृतः
शिवः स्वच्छच्छाया घटितकपटप्रच्छदपटः ।
त्वदीयानां भासां प्रतिफलनरागारुणतया
शरीरी शृङ्गारो रस इव दृशां दोग्धि कुतुकम् ॥ 92 ॥ಶ್ಲೋಕ 92ರ ಅರ್ಥ ಓದಿ · Meaning of verse 92 →93अराला केशेषु प्रकृतिसरला मन्दहसिते
शिरीषाभा चित्ते दृषदुपलशोभा कुचतटे ।
भृशं तन्वी मध्ये पृथुरुरसिजारोहविषये
जगत्त्रातुं शम्भोर्जयति करुणा काचिदरुणा ॥ 93 ॥ಶ್ಲೋಕ 93ರ ಅರ್ಥ ಓದಿ · Meaning of verse 93 →94★कलङ्कः कस्तूरी रजनिकरबिम्बं जलमयं
कलाभिः कर्पूरैर्मरकतकरण्डं निबिडितम् ।
अतस्त्वद्भोगेन प्रतिदिनमिदं रिक्तकुहरं
विधिर्भूयो भूयो निबिडयति नूनं तव कृते ॥ 94 ॥ಶ್ಲೋಕ 94ರ ಅರ್ಥ ಓದಿ · Meaning of verse 94 →95पुरारातेरन्तःपुरमसि ततस्त्वच्चरणयोः
सपर्यामर्यादा तरलकरणानामसुलभा ।
तथा ह्येते नीताः शतमखमुखाः सिद्धिमतुलां
तव द्वारोपान्तस्थितिभिरणिमाद्याभिरमराः ॥ 95 ॥ಶ್ಲೋಕ 95ರ ಅರ್ಥ ಓದಿ · Meaning of verse 95 →96कलत्रं वैधात्रं कतिकति भजन्ते न कवयः
श्रियो देव्याः को वा न भवति पतिः कैरपि धनैः ।
महादेवं हित्वा तव सति सतीनामचरमे
कुचाभ्यामासङ्गः कुरवकतरोरप्यसुलभः ॥ 96 ॥ಶ್ಲೋಕ 96ರ ಅರ್ಥ ಓದಿ · Meaning of verse 96 →97गिरामाहुर्देवीं द्रुहिणगृहिणीमागमविदो
हरेः पत्नीं पद्मां हरसहचरीमद्रितनयाम् ।
तुरीया कापि त्वं दुरधिगमनिःसीममहिमा
महामाया विश्वं भ्रमयसि परब्रह्ममहिषि ॥ 97 ॥ಶ್ಲೋಕ 97ರ ಅರ್ಥ ಓದಿ · Meaning of verse 97 →98★कदा काले मातः कथय कलितालक्तकरसं
पिबेयं विद्यार्थी तव चरणनिर्णेजनजलम् ।
प्रकृत्या मूकानामपि च कविताकारणतया
कदा धत्ते वाणी मुखकमलताम्बूलरसताम् ॥ 98 ॥ಶ್ಲೋಕ 98ರ ಅರ್ಥ ಓದಿ · Meaning of verse 98 →99सरस्वत्या लक्ष्म्या विधिहरिसपत्नो विहरते
रतेः पातिव्रत्यं शिथिलयति रम्येण वपुषा ।
चिरं जीवन्नेव क्षपितपशुपाशव्यतिकरः
परानन्दाभिख्यं रसयति रसं त्वद्भजनवान् ॥ 99 ॥ಶ್ಲೋಕ 99ರ ಅರ್ಥ ಓದಿ · Meaning of verse 99 →100★प्रदीपज्वालाभिः दिवसकरनीराजनविधिः
सुधासूतेश्चन्द्रोपलजललवैरर्घ्यरचना ।
स्वकीयैरम्भोभिः सलिलनिधिसौहित्यकरणं
त्वदीयाभिर्वाग्भिः तव जननि वाचां स्तुतिरियम् ॥ 100 ॥ಶ್ಲೋಕ 100ರ ಅರ್ಥ ಓದಿ · Meaning of verse 100 →
॥ ॐ तत्सत् ॥
ಚೌಕಟ್ಟಿನಲ್ಲಿ ★ ಗುರುತು ಇರುವ ಇಪ್ಪತ್ತೊಂದು ಶ್ಲೋಕಗಳನ್ನು ನಿತ್ಯ ಪಾರಾಯಣಕ್ಕೆ ಇಟ್ಟುಕೊಳ್ಳುವುದು ಹಲವರ ರೂಢಿ. ಅದಲ್ಲದೆ ಹಲವರು ವಿಶೇಷ ಸಂದರ್ಭಗಳಲ್ಲಿ ನೂರೂ ಶ್ಲೋಕಗಳನ್ನು ಪಠಿಸುತ್ತಾರೆ.
Many people keep the twenty-one verses marked ★ for daily recitation, and recite all hundred on special occasions.
ಈ ಪುಟದ ಬಗ್ಗೆAbout this page
ಇದು ಸೌಂದರ್ಯ ಲಹರೀಯ ನೂರು ಶ್ಲೋಕಗಳ ಸಂಸ್ಕೃತ ಪಾಠ, ದೇವನಾಗರಿ ಲಿಪಿಯಲ್ಲಿ. ಕನ್ನಡ ಲಿಪಿಯ ಪುಟದ ಪಾಠವನ್ನೇ ಅಕ್ಷರದಿಂದ ಅಕ್ಷರಕ್ಕೆ ಲಿಪ್ಯಂತರಿಸಿದ್ದೇವೆ, ಹಾಗಾಗಿ ಎರಡೂ ಪುಟಗಳ ಪಾಠ ಒಂದೇ. ಕನ್ನಡ ಲಿಪಿಯಲ್ಲಿ ಅನುಸ್ವಾರವಾಗಿ ಬರೆದ ಕಡೆ ದೇವನಾಗರಿಯಲ್ಲಿ ವರ್ಗದ ಅನುನಾಸಿಕವನ್ನು ಬಳಸಿದ್ದೇವೆ, ಉದಾಹರಣೆಗೆ ಶಂಕರ ಎಂಬುದು शङ्कर ಎಂದಾಗುತ್ತದೆ. ಯಾವುದೇ ಶ್ಲೋಕದ ಚೌಕಟ್ಟಿನ ಮೇಲೆ ಒತ್ತಿದರೆ ಅದರ ಪದಶಃ ಅರ್ಥದ ಪುಟ ತೆರೆಯುತ್ತದೆ.
This is the Sanskrit text of the hundred verses of the Soundarya Lahari, in the Devanagari script. It is transliterated letter for letter from the text on the Kannada script page, so the two pages carry the same text. Where the Kannada script writes an anusvara, the Devanagari uses the nasal of the following consonant, so ಶಂಕರ becomes शङ्कर. Tap any verse to open its page with the word-by-word meaning.
ಕೃತಿಯ ಎರಡು ಭಾಗಗಳು, ಕರ್ತೃತ್ವ, ವ್ಯಾಖ್ಯಾನಗಳು ಮತ್ತು ಯಂತ್ರಗಳ ಸಂಪ್ರದಾಯದ ಬಗ್ಗೆ ಕನ್ನಡ ಪುಟದ ಕೊನೆಯಲ್ಲಿ ಬರೆದಿದ್ದೇವೆ.
The Kannada script page ends with a longer note, in Kannada, on the two parts of the work, its authorship, the commentaries and the tradition of yantras.
ಆಧಾರ: ಹಲವು ಮೂಲಗಳು. Sources: several.











ಪ್ರತಿಕ್ರಿಯೆ ಬರೆಯಿರಿ