भगवद्गीता अध्याय 1: अर्जुनविषादयोगः, Sanskrit Text

The forty-seven verses of Bhagavad Gita Chapter 1 in Sanskrit (Devanagari), each linked to its page with word-by-word meaning, Kannada and English.

ಅರ್ಜುನ ವಿಷಾದ ಯೋಗ, ಸಂಸ್ಕೃತ ಪಾಠ, ಭಗವದ್ಗೀತೆ, ಜೀವನ ಸೂತ್ರ

ಲಿಪಿ · लिपिः · Script: ಕನ್ನಡ  ·  संस्कृतम्  ·  IAST

Bhagavad Gita, Chapter 1: अर्जुनविषादयोगः

Forty-seven verses. The teaching has not yet begun, but the question of the Gita is born here.
Tap any verse card to open its page with the word-by-word meaning. Pages are now ready for every verse of this chapter.

All eighteen chapters are listed here: श्रीमद्भगवद्गीता.

1धृतराष्ट्र उवाच
धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः ।
मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय ॥ 1 ॥
Meaning of verse 1.1 →
2सञ्जय उवाच
दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा ।
आचार्यमुपसङ्गम्य राजा वचनमब्रवीत् ॥ 2 ॥
Meaning of verse 1.2 →
3पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम् ।
व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता ॥ 3 ॥
Meaning of verse 1.3 →
4अत्र शूरा महेष्वासा भीमार्जुनसमा युधि ।
युयुधानो विराटश्च द्रुपदश्च महारथः ॥ 4 ॥
Meaning of verse 1.4 →
5धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् ।
पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुङ्गवः ॥ 5 ॥
Meaning of verse 1.5 →
6युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् ।
सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः ॥ 6 ॥
Meaning of verse 1.6 →
7अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम ।
नायका मम सैन्यस्य संज्ञार्थं तान्ब्रवीमि ते ॥ 7 ॥
Meaning of verse 1.7 →
8भवान्भीष्मश्च कर्णश्च कृपश्च समितिञ्जयः ।
अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च ॥ 8 ॥
Meaning of verse 1.8 →
9अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः ।
नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः ॥ 9 ॥
Meaning of verse 1.9 →
10अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् ।
पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् ॥ 10 ॥
Meaning of verse 1.10 →
11अयनेषु च सर्वेषु यथाभागमवस्थिताः ।
भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि ॥ 11 ॥
Meaning of verse 1.11 →
12तस्य सञ्जनयन्हर्षं कुरुवृद्धः पितामहः ।
सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् ॥ 12 ॥
Meaning of verse 1.12 →
13ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः ।
सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् ॥ 13 ॥
Meaning of verse 1.13 →
14ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ ।
माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः ॥ 14 ॥
Meaning of verse 1.14 →
15पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः ।
पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः ॥ 15 ॥
Meaning of verse 1.15 →
16अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः ।
नकुलः सहदेवश्च सुघोषमणिपुष्पकौ ॥ 16 ॥
Meaning of verse 1.16 →
17काश्यश्च परमेष्वासः शिखण्डी च महारथः ।
धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः ॥ 17 ॥
Meaning of verse 1.17 →
18द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते ।
सौभद्रश्च महाबाहुः शङ्खान्दध्मुः पृथक्पृथक् ॥ 18 ॥
Meaning of verse 1.18 →
19स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् ।
नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन् ॥ 19 ॥
Meaning of verse 1.19 →
20अथ व्यवस्थितान्दृष्ट्वा धार्तराष्ट्रान्कपिध्वजः ।
प्रवृत्ते शस्त्रसम्पाते धनुरुद्यम्य पाण्डवः ॥ 20 ॥
Meaning of verse 1.20 →
21हृषीकेशं तदा वाक्यमिदमाह महीपते ।
अर्जुन उवाच
सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत ॥ 21 ॥
Meaning of verse 1.21 →
22यावदेतान्निरीक्षेऽहं योद्धुकामानवस्थितान् ।
कैर्मया सह योद्धव्यमस्मिन्रणसमुद्यमे ॥ 22 ॥
Meaning of verse 1.22 →
23योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः ।
धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षवः ॥ 23 ॥
Meaning of verse 1.23 →
24सञ्जय उवाच
एवमुक्तो हृषीकेशो गुडाकेशेन भारत ।
सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् ॥ 24 ॥
Meaning of verse 1.24 →
25भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम् ।
उवाच पार्थ पश्यैतान्समवेतान्कुरूनिति ॥ 25 ॥
Meaning of verse 1.25 →
26तत्रापश्यत्स्थितान्पार्थः पितॄनथ पितामहान् ।
आचार्यान्मातुलान्भ्रातॄन्पुत्रान्पौत्रान्सखींस्तथा ॥ 26 ॥
Meaning of verse 1.26 →
27श्वशुरान्सुहृदश्चैव सेनयोरुभयोरपि ।
तान्समीक्ष्य स कौन्तेयः सर्वान्बन्धूनवस्थितान् ॥ 27 ॥
Meaning of verse 1.27 →
28कृपया परयाविष्टो विषीदन्निदमब्रवीत् ।
अर्जुन उवाच
दृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम् ॥ 28 ॥
Meaning of verse 1.28 →
29सीदन्ति मम गात्राणि मुखं च परिशुष्यति ।
वेपथुश्च शरीरे मे रोमहर्षश्च जायते ॥ 29 ॥
Meaning of verse 1.29 →
30गाण्डीवं स्रंसते हस्तात्त्वक्चैव परिदह्यते ।
न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः ॥ 30 ॥
Meaning of verse 1.30 →
31निमित्तानि च पश्यामि विपरीतानि केशव ।
न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे ॥ 31 ॥
Meaning of verse 1.31 →
32न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च ।
किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा ॥ 32 ॥
Meaning of verse 1.32 →
33येषामर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च ।
त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च ॥ 33 ॥
Meaning of verse 1.33 →
34आचार्याः पितरः पुत्रास्तथैव च पितामहाः ।
मातुलाः श्वशुराः पौत्राः श्यालाः सम्बन्धिनस्तथा ॥ 34 ॥
Meaning of verse 1.34 →
35एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन ।
अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते ॥ 35 ॥
Meaning of verse 1.35 →
36निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्जनार्दन ।
पापमेवाश्रयेदस्मान्हत्वैतानाततायिनः ॥ 36 ॥
Meaning of verse 1.36 →
37तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान्स्वबान्धवान् ।
स्वजनं हि कथं हत्वा सुखिनः स्याम माधव ॥ 37 ॥
Meaning of verse 1.37 →
38यद्यप्येते न पश्यन्ति लोभोपहतचेतसः ।
कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् ॥ 38 ॥
Meaning of verse 1.38 →
39कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम् ।
कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन ॥ 39 ॥
Meaning of verse 1.39 →
40कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः ।
धर्मे नष्टे कुलं कृत्स्नमधर्मोऽभिभवत्युत ॥ 40 ॥
Meaning of verse 1.40 →
41अधर्माभिभवात्कृष्ण प्रदुष्यन्ति कुलस्त्रियः ।
स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसङ्करः ॥ 41 ॥
Meaning of verse 1.41 →
42सङ्करो नरकायैव कुलघ्नानां कुलस्य च ।
पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः ॥ 42 ॥
Meaning of verse 1.42 →
43दोषैरेतैः कुलघ्नानां वर्णसङ्करकारकैः ।
उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः ॥ 43 ॥
Meaning of verse 1.43 →
44उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन ।
नरकेऽनियतं वासो भवतीत्यनुशुश्रुम ॥ 44 ॥
Meaning of verse 1.44 →
45अहो बत महत्पापं कर्तुं व्यवसिता वयम् ।
यद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः ॥ 45 ॥
Meaning of verse 1.45 →
46यदि मामप्रतीकारमशस्त्रं शस्त्रपाणयः ।
धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत् ॥ 46 ॥
Meaning of verse 1.46 →
47सञ्जय उवाच
एवमुक्त्वार्जुनः सङ्ख्ये रथोपस्थ उपाविशत् ।
विसृज्य सशरं चापं शोकसंविग्नमानसः ॥ 47 ॥
Meaning of verse 1.47 →

ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे अर्जुनविषादयोगो नाम प्रथमोऽध्यायः ॥


About Arjuna Viṣāda Yoga

In the first chapter the teaching does not yet begin. The only words Krishna speaks in this chapter are one sentence in the twenty-fifth verse: Partha, look at the Kurus gathered here. That one look drives the rest of the chapter. Among those standing opposite, Arjuna does not see enemies. He sees grandfathers, teachers, uncles, brothers and sons.

How the chapter moves

  • Verse 1: Dhritarashtra’s question.
  • Verses 2 to 11: Duryodhana goes to Drona and names the leading warriors of both armies.
  • Verses 12 to 19: Bhishma’s lion roar, then the conches of both sides.
  • Verses 20 to 27: Arjuna asks for his chariot to be placed between the two armies, and sees his own people facing him.
  • Verses 28 to 46: Arjuna’s body and mind give way. He gives reason after reason for not fighting.
  • Verse 47: Arjuna lays down his bow and arrows and sinks down in the chariot.

Can grief be a yoga?

It is natural to ask why a chapter that describes grief is called a yoga. The traditional answer is simple. Without Arjuna’s collapse there would be no question, and no teaching. Sridhara Swami opens his commentary by describing the Gita as the story of Krishna lifting Arjuna out of an ocean of grief and delusion.

In the twenty-ninth and thirtieth verses Arjuna describes what is happening in his body: his limbs are failing, his mouth is drying, the Gandiva is slipping from his hand, he is trembling, his hair stands on end, his skin is burning, his head is spinning and he cannot stand. In today’s medical language this description comes very close to the bodily signs of acute anxiety. Old records that show so precisely how distress of the mind appears in the body are rare.

About this page

The text here has been compiled from several sources, and the order and numbering follow the commonly used edition. In verses 21 and 28 the line arjuna uvaca comes in the middle of the verse. Some sources explain several verses together; here every verse has a page of its own. Pages are now ready for all forty-seven verses of this chapter.

Sources: several.

ಹೊಸ ಬರಹ ಬಂದಾಗ ತಿಳಿಯಿರಿ

ಅನಗತ್ಯ ಸಂದೇಶ ಕಳುಹಿಸುವುದಿಲ್ಲ. ವಿವರಕ್ಕೆ ಗೌಪ್ಯತಾ ನೀತಿ ನೋಡಿ.

ಪ್ರತಿಕ್ರಿಯೆ ಬರೆಯಿರಿ

ನಿಮ್ಮ ಇಮೇಲ್ ವಿಳಾಸ ಪ್ರಕಟವಾಗುವುದಿಲ್ಲ. ಅಗತ್ಯವಿರುವ ಕಡೆ * ಗುರುತಿದೆ

ಮೇಲಕ್ಕೆ